________________
यदपि घटादेनाकारत्वेऽपि 'भूतले न घटः' इत्यादेनियताधाराधेयभावकल्पनाबीजसाम्राज्याद् वारणमकारि । तदप्यसत , आधारा-5ऽधेयाभ्यां कथंचिदपृथग्भूतस्याधाराधेयभावस्याबाधितानुभवसिद्धत्वेनाकाल्पनिकत्वात् । अन्यथा नीलादावप्यनाश्वासात् । यदपि 'अर्थाभावेऽपि धियामन्तर्वहिर्विभागः स्वरूपभेदादेव' इति भणितम् , तदपि न तथ्यम् , व्यक्तिभेदस्यातिप्रसङ्गित्वात् , जातिभेदस्य चानभ्युपगमात् । न चान्तर्बहिर्विभागो मिथ्या, सुख-नीलाद्यनुभवानामन्तर्बहिर्भावस्यागोपाला
जनं प्रसिद्धत्वात् । एतेनाहमिदमाकारभेदव्याख्यानमपि सुप्रत्याख्यातम् , अहमाकारस्य शरीरालम्बनत्वे 'इदं गौरम्' इत्यOनुपपत्तेः, निरालम्बनत्वे च भ्रान्तत्वापत्तेः, दानाद्याकारकालेऽहमाकारानुपपत्तेश्च । न चेदंताया अन्यस्या अनुपपत्ते नाकार
मात्रत्वं युक्तम् , प्रत्यक्षसमानकालीनार्थपर्यायविशेषरूपत्वात् तस्याः, अनन्तधर्मात्मकवस्त्वभ्युपगमे दोपलेशस्याप्यभावादिति न किश्चिदेतत् ।
_ इत्थं विलक्षीभूतस्य तूष्णींभावमुपेयुषः । योगाचारस्य योगाय च्छलमद्य विजृम्भते ॥१॥१२॥
प्रकृतमेव भावयन्नाहघटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः। प्राप्तरर्थक्रियायोगात्स्मृतेः कौतुकभावतः॥१३॥
घटादिज्ञानमित्यादिसंवित्तेः- 'घटमहं जानामि' इत्यायन्तर्बहिर्मुखसांशानुभवात् , विमुखज्ञानमात्रस्यावेदनात् , अनुभवापलापे निराकारस्यैव दर्शनस्य सिद्धः, आकारव्यवस्थायाः कल्पनयोपपत्तेरतिप्रसङ्गाद् न ज्ञानमा जगत् । तथा, तत्म
Jain Education
nationa
For Private Personel Use Only
www.jainelibrary.org