SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥ १७९ ॥ Jain Education Inte hi aani faभागः ९ । प्रतिभासभेदादिति चेत् । प्रत्यक्षा- अनुमानयोरपि किं न विशदादाविशदप्रतिभासभेदः १ । नीलाद्याकारव्यतिरेकेण तत्र वैशद्याद्याकाराननुभवाद न तद्भेद इति चेत् । न, प्रदीर्घाध्यवसाये तदनुभवस्यावाधितत्वात् ; क्षणिकाध्यवसाये तु प्रतिनियतैकाकारानुभवस्यापि दुर्घटत्वात् । एवं च ' यदवभासते तज्ज्ञानं, यथा सुखादिकम्' इत्यनुमानमपि निरस्तम्, सुखादीनां सर्वथा ज्ञानाभिन्नत्वाभावेन दृष्टान्तासिद्धेश्व । न च 'सुखादयो ज्ञानात्मकाः, ज्ञानाभिन्नहेतुत्वात् ' इत्यतः सुखादीनां ज्ञानात्मकतासिद्धिः, कुम्भादिभङ्गजस्य शब्दस्य कपालखण्डादिना तुल्यहेतु जत्वेऽप्यतद्रूपत्वेन व्यभिचारात् सुखादीनां विशिष्टादृष्टविपाक- स्रग्-वनितादिनिमित्तजन्यत्वेन सर्वथा ज्ञानाभिन्नहेतुजत्वाभावाच्च; अन्यथा विभिन्न स्वभावत्वानुपपत्तेः । न च तदसिद्धिरेव, सुखादेराहादनायाकारत्वात् ज्ञानस्य च प्रमेयानुभव स्वभावत्वात् ; तदुक्तम्- "सुखमाहादना कारं विज्ञानं मेबोधनम्" इति । न च ज्ञानक्षणोपादानत्वादुत्तरज्ञानक्षणवत् सुखादीनां ज्ञानाभिन्नत्वम् आत्मद्रव्योपादानस्वात् तेषाम् । न खलु पर्यायाणां पर्यायान्तरोत्पत्तावुपादानत्वं कचिद् दृष्टम्, द्रव्यस्यैवान्तर्वहिर्वोपादानत्वोपपत्तेः । तदुक्तम्" orator arreरूपं यत् पौर्वापर्येण वर्तते । कालत्रयेऽपि तद् द्रव्यमुपादानमिति स्मृतम् ॥ १ ॥ " इति । 'यदि च सुखादयो ज्ञानात् सर्वथाऽप्यभिन्नाः तर्हि तद्वदेवैषामप्यर्थप्रकाशकत्वं स्यात् न चात्र तदस्ति, सुखादीनामपि स्वज्ञानप्रकाश्यत्वेन बहिरर्थाविशिष्टत्वात्' इति देवसूरिमभृतयः । अन्ये तु - 'सुखादीनामहङ्कार- कोषादिवदन्तर्मुखत्वेst fafeteria ज्ञानभिनत्वम्' इत्यभिमन्यन्ते । For Private & Personal Use Only सटीकः स्तबकः । ॥ ५ ॥ ॥ १७९ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy