SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ विना स्वीकुरुतेऽन्यः कश्चित् , अनुभूतस्यैव रथादेस्तदा सन्निहितत्वेन दोपमहिम्ना भानात , असदाकारस्यैव जनने च वासना शशविषाणमपि किं न जनयेत् । न ह्यत्र न पर्यनुयोग इति राज्ञामाज्ञा । 'प्रतिनियतशक्तिविशेषश्चाविद्यायामेव, न शशविषाणे' इत्यत्र श्रद्धामात्रमेव शरणम् । यदपि 'पागसत्वे तु दर्शनमेव मानम्' इति । तदपि न पेशलम् , तद्रूपेणानिश्चयात् , अन्यथा संशयायोगात् । यदपि 'ख-परदृष्टनीलयोर्भेदाद न साधारणं नीलं ग्राह्यतयाभिमतं सिद्ध्यति, किन्तु ग्राहकत्वाभिमतमेव तद् युक्तम्' इति । तदप्य7 सत् , विना साधारणता परदृष्टे नीलेऽनुमानस्यैवानवतारात् । न हि धूमेऽप्यसाधारणवाहिना समं व्याप्तिग्रहोऽस्ति । न चागृहीतव्याप्तिकमनुमाने विषयीभवितुमर्हतीति । एतेन' "लिङ्गस्याव्यभिचारस्तु धर्मिणान्यत्र गृह्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥१॥" इति वहिविशिष्टदेश एवानुमेयः' इति दिङ्नागोक्तमपास्तम् , असाधारणेन तेनापि समं व्याप्त्यग्रहात् । नन्वेवं सुखादिकमपि साधारणं स्यादिति चेत् । स्यादेव तिर्यक्सामान्येन । एवं नीलादिसाधारण्यं न दोषायेति चेत् । न, 'इदं देवदत्तदर्शनविषयः, देवदत्तप्रवृत्तिविषयत्वात्' इत्यूलतासामान्येनापि साधारण्यसिद्धेः, क्षणभङ्गस्य निरस्तत्वात् , निरसिष्यमाणत्वाच्च । यदपि 'चिद्रूपत्वस्यापरोक्षरूपस्य नीलादिसाधारण्याज्ज्ञानवद् न ग्राह्यत्वम्' इति । तदप्यवद्यम् , स्फुरदूपत्वेनापरोक्षत्वे पहचादेरपि तथात्वे प्रत्यक्षा-ऽनुमानविभागव्याघातात् । तत्त्वतस्तदविभागाद् न दोष इति चेत् । नील-पीतायाकाराणामपि Jain Education intona For Private & Personal use only INDdwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy