________________
शास्त्रवार्ता
समुच्चयः । ॥१७८॥
व्यवच्छेदकरणात् त्वनुमानं प्रमाणमिष्यत इति चेत् । न तत्र समारोप व्यवच्छेदस्य तन्मते कथमपि कर्तुमशक्यत्वात्, नाशस्य निर्हेतुकत्वाभ्युपगमात्, तत्कारणानां सामर्थ्येऽसामर्थ्ये वा तदुत्पत्तिप्रतिबन्धस्यापि वक्तुमशक्यत्वात् ;
"यस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः १ ॥ १॥"
इति स्वयमेवाभ्युपगमात् । न चानुमानसहायस्य प्राक्तनसमारोपक्षणस्योत्तरसमारोपक्षणानन्तरजननासमर्थक्षणजननाद् द्वितीयक्षणे कारणाभावादेव समारोपानुत्पत्तेरनुमानप्रामाण्यम् ; लिङ्गा-अनुमानयोरिव पूर्वोत्तरसमारोपक्षणयोर्हेतुफलभावाभावात्, न्यायस्य समानत्वात् ।
यदपि 'पूर्वदृष्यैकत्वगतेरयोगाद् नानुभवात् प्रागर्थसिद्धिः' इत्यभिहितम्, तत्रापि न सम्यगवहितम्, प्रत्यभिज्ञयै तदेकत्वावगतेः । न च ' सोऽयमिति नैकं ज्ञानम्' इत्युक्तं युक्तम्, प्रत्यक्षत्वजातिवादिनां तदैक्यासंग तावप्यस्माकं स्वरूप इवेदमंशेऽपि स्पष्टतया प्रत्यक्षत्वेऽपि तदुपयोगसामान्ये विलक्षणक्षयोपशमवलायातप्रत्यभिज्ञात्वाविरोधात्, 'इदं पश्यामि' इति - वत् 'तमिमं प्रत्यभिजानामि' इत्यनुभवात् । न चैवं "स्पष्टं प्रत्यक्षम्” इति लक्षणातिव्याप्तिः, बहिर्विषयसामान्ये स्पष्टताया लक्षणघटकत्वात्, 'बहिरर्थग्रहणापेक्षया हि' इत्याकरस्वारस्याविरोधादित्यन्यत्र विस्तरः । यदप्यर्थं विनापि स्वापादाविव जाग्रदशायां भानमुक्तम्, तसिद्धमसिद्धेन साधयतः स्वस्य महामोहममतां व्यञ्जयति, न हि स्वमादावप्यर्थे विना भानं भवादर्श
१ प्रमाणनयतत्वालोकालङ्कारे २|१|
Jain Education International
For Private & Personal Use Only
| सटीकः । |स्तचकः ।
॥ ५ ॥
।। १७८ ॥
www.jainelibrary.org