SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ शब्दार्थानुपपत्तिरिति न किश्चिदेतत् । । एवं च 'नीलमहं वेद्मि' इत्यत्र कर्म-कर्तृ-भावप्रत्ययस्याविद्यकत्वं परास्तम् , बाधाभावात् , अन्यथा नीलादिप्रत्ययानामपि तथात्वापच्या शून्यतायां पर्यवसानप्रसङ्गात् । न च 'स्वातन्त्र्योपलम्भो बाधकः' इत्युक्तं युक्तम् , 'नीलमहं वेद्मि' इति परस्परोपरागेणैव प्रतीतेः । न च समकालयोभिन्नकालयोर्वा ग्राह्य ग्राहकभावासंभवात् 'अर्थाग्राहि ज्ञानम्' इति युक्तम् , अनुमानोच्छेदमसङ्गात् , तत्रापि लिङ्गा-ऽनुमानयोः कार्यकारणभावे उक्तविकल्पदोषानतिवृत्तेः। एतेन 'नीलादि ज्ञानम् , ज्ञानकार्यत्वात् , उत्तरज्ञानवत्' इत्यपि निरस्तम् , अनुमानस्यापि लिङ्गजन्यत्वेनोत्तरलिङ्गक्षणवल्लिङ्गतापत्तेः, उपादान-निमितशक्तिस्वभावभेदाभ्यां समाधानस्यापि तुल्यत्वात् । एवं च 'यया प्रत्यासत्या ज्ञानं स्वरूपं गोचरयति तयैव चेदर्थम् , तदा तयोरैक्यापत्तिः; अन्यया चेत् , स्वभावद्वयापत्तिः, तदपि चापरेण स्वभावद्वयेन, तदपि चान्येन तेन ग्राह्यमित्यनवस्था, स्वसंविदितस्यासंविदितरूपायोगात्' इत्यपि निरस्तम्, लिङ्गस्य समानक्षणानुमानकरणेऽप्यस्य पर्यनुयोगस्य समानत्वात् । लिङ्गं तदुभयकरणैकस्वभावं चेत । 'ज्ञानमपि स्व-परग्रहणैकस्वभावम्' इति स्वीकारे कस्तव कर्णशूलनिवारणोपायः । एवं ज्ञानाद् ग्रहणक्रियाया अर्थातरत्वा-ऽनन्तरत्वपक्षदोषेऽप्यनुमाने लिङ्गादुत्पत्तेस्तत्पक्षदोषतौल्यं विभावनीयम् । परमार्थतो लिङ्गं नानुमानकारणम् , व्यवहारात्तु तथेष्यत इति चेत् । अर्थस्यापि तत एव ज्ञानग्राह्यत्वं किं नेष्यते । व्यवहारापामाण्याल्लिङ्गमप्यनुमानकारणं तच्चतो नेष्यत एव, ग्राह्य-ग्राहकभाववत् कार्यकारणभावस्यापि निषेधात्, समारोप Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy