________________
आम
शास्त्रवात- समुच्चयः। ॥१७७॥
ON
GE
भेदगर्भत्वात् । किञ्च, ग्राह्य ग्राहकाकारस्वरूपभेदः प्रत्यक्षसिद्ध एव । अत एव नीलाकारं नाहमाद्याकारमिति चेत् । न, अनेका- सटीकः । कारकरम्बितेकविज्ञानानभ्युपगमे नील-धवलाधवगाहिचित्रज्ञानानुपपत्तेः, 'क्रमिकाण्येव तज्ज्ञानानि' इत्यभ्युपगमेऽप्येकमपिस्तवकः। नीलादिज्ञानं न व्यवतिष्ठेत, नीलाकारेऽपि नीलत्वोपरागात् , एकापलापेऽन्यापलापस्य तुल्यत्वात् । चित्रज्ञानाभ्युपगमे च चित्रार्थो- ॥५॥ ऽप्यनिवारितः, ग्राह्य-ग्राहकभेदस्य सत्यस्य प्रतिभासात् । एतेन 'विवेकेनाग्रहणाद् न तद्भेदः सत्यः' इति निरस्तम् , आकारयोरसंभेदेन वेदनस्यैव विवेचनत्वात् । प्रकाश-प्रकाशतयोस्तु मिथोऽनुपरागलक्षणेनासंभेदेन वेदनाभावात् ।
यदपि 'सहोपलम्भनियमाव' इत्यायुक्तम् । तदपि न युक्तम् , यतः सहोपलम्भो युगपदुपलम्भः, क्रमेणोपलम्भाभावः, एकोपलम्भो वाभिप्रेतः । आये, बुद्धचित्तसन्तानान्तरचित्तानां सहोपलम्भनियमेऽपि तदभेदाभावेन व्यभिचारः । यत्तु- “यो हि ज्ञानोपलम्भ एवं ज्ञेयोपलम्भः, ज्ञेयोपलम्भ एव च ज्ञानोपलम्भः स युगपदुलम्भनियमोऽभिधीयते' इति धर्मोत्तरानुसारिणः समाधानम् , बुद्धज्ञाने च नायं नियमः, पृथक् संतानान्तरैः स्वचित्तसंवेदनादिति । तत्र 'यज्ज्ञेयं यज्ज्ञानोपलम्भनियतसहोपलम्भं तत् तज्ज्ञानाभित्रम्' इत्यर्थे पारमार्थिकज्ञाने सांवृतज्ञेयाभेदसाधने बाधात् , 'यज्ज्ञेयोपलम्भो यज्ज्ञानोफ्लम्भसहभावनियतः स. तज्ज्ञानाभिन्नः' इत्युक्तौ च पूर्वोक्तदोषानतिवृत्तेः, यदीयत्वस्यापि व्याप्तौ निवेशे च बुद्धचित्तस्य संतानान्तरग्राहित्ववभेदं विनापि कयाचित् प्रत्यासत्या ज्ञेयग्राहित्वोपपत्तावप्रयोजकत्वम् , तदग्राहित्वे च तस्य सायानुपपत्तिः, विशुद्धज्ञानत्वेनैव तस्य गलितग्राह्य-ग्राहकाकारकलङ्कत्वात् सर्वज्ञत्वम्' इति कश्चित् । तदसत , सर्वाग्रहे सर्वज्ञतापदार्थस्यैवाघटमानस्वादिति न किश्चिदेतत् । द्वितीये, तुच्छस्य तस्य न प्रतीतिः । तृतीये च साध्याविशेषः । किश्च, एकान्तैक्ये सह- ॥१७७॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org