________________
एवं च- उक्तरीत्या, अग्रहणादेव- अदर्शनादेव, तदभाव:- बाह्यार्थाभावः, अवसीयते । अतः किमुच्यते- 'अर्थाभावे मानं न विद्यते' इति, नीलादौ ज्ञानाभिन्नत्वग्रहे समीहितसिद्धेः । एतेन 'अदर्शनादेवाभावनिश्चये पुत्रादर्शनात् तदभावनिश्चयेनोरस्ताडनादिना शोकप्रसङ्गः' इति दुर्भाषितमपास्तम् , परेषां पुत्रध्वंसग्रहसामग्रीनियतत्वात् तदाकारस्य, पुत्रध्वंसग्रहस्य च शोकहेतुत्वादिति । कथं तर्हि प्राक् पूर्वकालसंवन्धित्वेनादर्शनात् तदभावग्रह उक्तः' इति चेत् । धर्म्यतिरिक्तस्य तस्य दुर्वचत्वाद् धर्मिस्वरूपत्वे योग्यत्वेन तदापादनसंभवादित्याकलय । एवं च विज्ञानस्वसंवेदनस्यैव मानवादित्याशयव्याख्याने मानत्वात्' इत्यस्य 'मानोत्थापकत्वात्' इत्यर्थो बोध्यः ।। ११ ॥
अत्रोच्यतेअर्थग्रहणरूपं यत् तत्स्वसंवेद्यमिष्यते। तवेदने ग्रहस्तस्यततः किं नोपपद्यते?॥१२॥
यद्- यस्मात , तद्-विज्ञानम् , अर्थग्रहणरूपं- बाह्यार्थपरिच्छेदात्मकं सत , स्वसंवेद्यमिष्यते- 'नीलमहं वेमि' इति विच्छिन्नार्थग्रहणरूपतयाऽनुभूते, तद्वेदने- एवंभूतविज्ञानानुभवे, तद्ग्रहः- बाह्यार्थग्रहः, ततः- तस्मात् कारणाद , किं नोपपचते- अधिकृतवेदनस्यैवार्थमन्तरेणायोगात् ? इति ।
खलस्य योगाचारस्य ज्ञात्वार्थद्वेषितामिव । सभायामधुना सभ्याः ! अनर्थ उपतिष्ठते ॥१॥ सथाहि- यत तावदुक्तम्- 'ज्ञानभिन्नस्य ज्ञानाविषयत्वाद् न वाह्यार्थः' इति । तद् विपरीतम् , तद्विषयताप्रयोगस्य
JainEducation
For Private
Personal Use Only