SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥१७६॥ भासते च नीलादिकम्, अतो ज्ञानमेव' इति स्वभावहेतुः । कथं तर्हि 'भूतले घटः' इति प्रतीतिः, न तु 'भूतलं न घटज्ञानवत्' इतिवद् 'भूतलं न घटवत् ? इति कथं वा 'अहं घटज्ञानवान्' इतिवत् 'अहं घटवान्' इति न प्रतीतिः ? इति चेत् । पृच्छेतद् नियताधाराधेयभावकल्पनाबीजम् । न हि परे Porterभावो वास्तवो वक्तुं शक्यते, संयोगमात्रस्य तस्वे कुण्ड-बदरयोस्तद्विपर्ययस्य विनिगन्तुमशक्यत्वात् ति संयुक्त योर्द्वयोस्तदव्यवहाराच्च । न च वदरादिप्रतियोगित्वविशिष्टसंयोगादिरेव वदरायाधारता, क्षणभङ्गापच्या विशि ष्टस्यातिरिक्तस्थानभ्युपगमात् प्रतियोगित्वाद्यविवेचनाच्च । न च कुण्डादिखरूपैव बदरायाधारता, तत्स्वरूपस्य साधारणत्वाद्दरं प्रतीव करभं प्रत्यप्यविशेषात् । तस्माद् भूतलादौ घटाद्याधारामतीतिरविद्याविशेषादेव नियतेति प्रतिपत्तव्यम् । एतेन 'अर्थाभावेऽन्तर्बहिर्विभाग एव न स्थात्' इति निरस्तम्, भिन्नदेश संवन्धित्वेन तदसंभवेऽपि विश्वरूपभेदेन तत्संभवात् । अन्यथा स्वप्नादौ रथादिज्ञाने बहिर्ज्ञानत्वं न स्यात् । एतेन चाहमिदमाकारभेदोऽपि व्याख्यातः स्वरूपतस्तद्भेदात् 'इदं नीलं'' इत्यत्रेदमाकार- नीलाकार योर्दोषा देवैकज्ञानत्वाभिमानात् । वहिनिलादिस्वरूपमिदंत्वं त्वनुपपन्नम् असत्यप्यर्थे दोषवशात् 'इदम्' इति प्रतीतेः । 'इदं नीलम्' इत्यादिसहयोगानुपपत्तेश्च घटो घटः' इत्यादिवदिति दिग् ॥ १० ॥ निगमयति- एवं चाग्रहणादेव तदभावोऽवसीयते। अतः किमुच्यते मानमर्थ भावे न विद्यते ॥११॥ Jain Education Intonal For Private & Personal Use Only सटीकः । स्तबकः । ॥ ५ ॥ ॥ १७६ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy