________________
व्यवच्छिनतीति । अथ नीलं तद्दर्शनविरतावपि परदृशि प्रतिभातीति साधारणतया ग्राम्, विज्ञानं स्वसाधारणतया ग्राहकमिति भेदो युक्त इति चेत् । न, नीलस्य साधारणतया प्रतीतेः । न हि नीलं परदृशि प्रतिभातीत्यत्र प्रत्यक्ष सरोऽस्ति । अथानुमानात् तत्साधारणता प्रतीयते, स्वसंताने नीलादानार्थप्रवृत्तेः, नीलदर्शनमूलकत्वदर्शनेन परसंतानेऽपि प्रवृत्तिदर्शनात् तद्विषयदर्शनानुमानादिति चेत् । न, परमवृत्यादिना परदृष्टनीलानुमानेऽपि स्व-परदृष्टयोरैक्यासिद्धेः, सामान्येनान्वयपरिच्छेदात्, अपरधूमदर्शनादपरवह्नयनुमानात्, अपरवह्नौ पूर्वदृष्टवह्निसदृशता विकल्पवत् परदृष्टे स्त्रदृष्टसदृशतामात्र विकल्पावतारात् । प्रतिभासभेदेऽपि स्व-परदृष्टयोः सदृशव्यवहारादिकार्यदर्शनादभेदः स्यात्, तदा सदृशरोमाञ्चोद्भवादिकार्यदर्शनात् सुखादेरपि स्व-परसंतानभुवस्तवं भवेत् । न च संतानभेदात् तद्भेदः, तत्रापि भेदकान्तरगवेषणायामनवस्थानात् । स्वरूपत एव तद्भेदे च सुखादेरपि तत एव भेदसंभवात् । न च देशैकत्वात् स्व-परदृष्टनीलादीनामेकत्वम्, देशस्यापि स्व-परदृट्टस्योक्तवदेकत्वायोगात् । तस्माद् ग्राहकाकारवत् प्रतिपुरुषमुद्भासमानं नीलादिकमपि भिन्नमेव, तचैककालोपलम्भाद् ग्राहकवत् स्वप्रकाशम् ।
अथ ग्राहकाकार विद्रूपत्वाद् वेदकः, नीलाकारस्तु जडत्वाद् ग्राह्य इति चेत् न, अपरोक्षस्वरूपस्य चिद्रूपत्वस्य नीलादिसाधारण्यात् । नीलादेरपरोक्षस्वरूपमन्यस्माद् भवति, न तु बोधस्येति विशेष इति चेत् । न बोधस्यापीन्द्रियायपेक्षत्वात् । स्वोत्पत्तावेव बोध इन्द्रियादिकमपेक्षते, न तु स्वापरोक्षतायामिति चेत् । न एकत्रापेक्षा ऽनपेक्षाऽयोगात् । एवं चान्तर्बहिराकारयोस्तुल्यत्वेऽपि 'एकत्र ग्राहकताशक्ति, अन्यत्र च ग्राह्यताशक्तिः' इति परेषां वासनामात्रम्, असिद्धे ग्राह्यग्राहकभावे तच्छक्तिकल्पनाया अयोगात्, तस्याः कार्यानुमेयत्वात् । एवं च ' यदवभासते तज्ज्ञानम्, यथा सुखादिकम्
अव
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org