SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातों- समुच्चयः। ॥१७५॥ सटीक स्तबकः। न मानमस्ति, येन तत्र प्रकाशतां चक्षुरादिकमादध्यात्। दर्शनमेव तत्र मानमिति चेत् । न, तेन वकालावधेरेवाऽर्थस्य ग्रहणात् । अथ 'पूर्वदृष्ट पश्यामि' इति व्यवसायात प्रागर्थः सिध्यति, प्रागर्थसत्तां विना दृश्यमानस्य पूर्वदृष्ट एकत्वगतेरयोगादिति चेत् । केन तयोरेकत्वं गम्यते ?- इदानींतनदर्शनेन, पूर्वदर्शनेन वा । नायः, इदानींतनदर्शनकाले पूर्वकालस्याऽस्तमयात् , तेनाविद्य. मानपूर्वदृग्गर्भपूर्वदृष्टनाया अग्रहणात् , अन्यथा वितथत्वप्रसङ्गात् । अत एव न द्वितीयः, पूर्वदर्शनेन वर्तमानकालदर्शनव्याप्तेरनवसायात् । तस्मादपास्तपूर्वगादियोग सर्व वस्तु दृशा गृहयते, पूर्वदृष्टता तु स्मृतिरुल्लिखतीति। न च स एवायम्' इति प्रतीतिरेका, 'सः' इत्यस्य स्मृतिरूपत्वात् , 'अयम्' इत्यस्य च दृक्स्वरूपत्वात् , परोक्षत्वा-ऽपरोक्षत्वाभ्यां तद्भेदात् । न च पश्यामीति प्रतीतेः प्रत्यक्षमेव प्रत्यभिज्ञानम् , न च संस्कारजन्यत्वेन स्मृतित्वापत्तिः, संस्कारमात्रजन्यत्वस्यैव स्मृतित्वव्याप्यत्वात् , तत्तास्मृतेरेव वा तत्तापत्यभिज्ञाहेतुत्वात्' इति नैयायिकादिमतमपि युक्तम् , तेषामपि 'पश्यामि' इत्याद्यनुगतमस्या चाक्षुषत्वासिद्धेनिर्विकल्पकासाधारण्यात , वैशद्यविशेषस्यैव 'पश्यामि' इति प्रतीतौ विषयत्वादिति न किश्चिदेतत् । अथानुमानात् प्राग् भावोऽर्थस्य सिध्यति, प्राक् सत्तां विना पश्चाद्दर्शनायोगादिति चेत् । न, प्राक् सत्ताया असिद्धया तया सह पश्चाद्दर्शनस्य नियमासिद्धेः । अथ ज्ञाने नीलाद्याकारस्य कादाचित्कस्यान्यथानुपपद्यमानत्वात् तत्प्रसिद्धयेऽर्थः परिकल्प्यत इति चेत् । न, स्वमाद्यवस्थायां वासनाविशेषसामर्थ्यवशादविद्यमानकरि-तुरग-रथाद्याकारपतिपत्तिनियमवज्जाग्रदशायामपि तत एव दर्शनस्य प्रतिनियतविषयत्वोपपत्तेः, तद् न प्रागर्थसत्त्वम् । मागसत्वे तु धर्मिस्वरूपे दर्शनमेव प्रमाणम् , यद् येनैव रूपेणोपलभ्यते तत् तेनैव रूपेणास्ति, यथा नीलं नीलरूपतयैव, इत्थं च वर्तमानत्वेनानुभव एव पूर्वकाले संबन्धित्वं ॥१७५|| Join Education into For Private & Personal use only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy