________________
कस
"अवेद्य-वेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्य-ग्राहकाकारविप्लवा ॥१॥
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न संनोद्यग्राह्य-ग्राहकलक्षणा ।। २ ॥” इति । ___ अनयोरयमर्थः- स्वरूपेणाविद्यमानवेद्य-वेदकाकारापि बुद्धिर्यथा भ्रान्तैर्व्यवहर्तृभिर्निरीक्ष्यते तथैव कृतव्यवस्थेयं Ko व्यवहियते, तैस्तु केशादिवानभेदवत्-तिमिराद्युपप्लुताक्षाणां बोधभिन्नाविद्यमानकेशादिमतिवत्तिवदियं विभक्तलक्षणग्राह्य
ग्राहकाकारविप्लवा निरीक्ष्यते, विभक्तलक्षणौ ग्राह्य-ग्राहकाकारावेव विप्लवी- असनिर्भासविभागौ यस्याः सा तथोक्ता । यदायमविद्यानिवन्धनो बुद्धः पविभागस्तदा न संनोद्यग्राह्य-ग्राहकाकारलक्षणा- संनोये पर्यनुयोज्ये ग्राह्य-ग्राहकलक्षणे यस्याः सा तथा न भवति । न ह्यविद्यासमारोपिताकारः पर्यनुयोगमहति । अतो न 'भ्रान्तेः प्रकाशमानत्वेनाबोधरूपता, बोधरूपतायां वा नासदाकारसंस्पर्शः, तत्संस्पर्श वा सत्यापत्तिः' इत्यादिपर्यनुयोगावकाशः । 'नीलमहं वेभि इति परस्परासंसक्तं प्रतीतित्रय क्रमवत् प्रतिभाति, न कर्म-कर्तृभावः' इत्यन्ये, तेषां द्वितीयाथर्थानुपपत्तिः।।
अथ सुख-स्तम्भाद्याकारव्यतिरिक्तसंवदेनाभाचे कथं 'चक्षुरादिना मया रूपं प्रतीयते' इत्यादिप्रतीतिः ? इत्युपलभ्ये रूपादिके चक्षुरभिमुखीभूतं तत्पकाशत्वं विदधाति सैव बुद्धिरिति चेत् । न, 'चक्षुरादिना रूपमुपलभ्यते' इत्यादौ बाह्यार्थवादिपरिकल्पिते परोक्षे रूपादौ तदाकारा प्रकाशता चक्षुरादिना जन्यत इति वासनाविशेषण तथा व्यपदेशसंभवात् , पूर्वसामग्रीतश्चक्षुरादिरूपायाकारप्रकाशता बुद्धिस्वभावोपजायत इत्येकसामग्न्यधीनतया वा तथा व्यपदेशात् । दृश्यते हि प्रदीप-प्रकाशयोः समानकालयोः 'प्रदीपेन घटः प्रकाशितः' इत्येकसामग्यधीनतया व्यपदेश इति । दर्शनात् मागर्थसद्भावे तु
Jan Educat
For Private & Personal Use Only
www.jainelibrary.org