________________
शास्त्रवार्तासमुच्चयः । ॥१७४॥
Jain Education In
स्येति संयोज्य प्रत्येतुं शक्या, शक्यत्वे वा नियतसहोपलम्भयोः पृथगपोद्वारकल्पनाया अभेदनिश्चय पर्यवसायित्वादिति; तदुक्तम्- " सहोपलम्भनियमादभेदो नील-तद्धियोः" इति ।
नन्वेवं कथमका ग्राह्य एव, बोधाकारस्तु ग्राहक एवेति नियमः । इति चेत् । न कथंचिद् भिन्नकालयोग्रा ग्राहकाभावात्, समानकाल पोरप्येकस्य ग्राह्यत्वम्, अन्यस्य च ग्राहकत्वमित्यत्राविनिगमात् । ग्रहणक्रियाकर्तृ ज्ञानं ग्राहकम्, Tarrrrrr ग्राह्य इति चेत् । न, अन्तः सुखाकारव्यतिरेकेण वहिव नीलाद्याकारव्यतिरेकेणापराया ग्रहणक्रियाया अभानात् । भाने च तस्य 'स्वतः परतो वा ?" इति विकल्पावतारः । आद्ये, एकदा नील-बोध-ग्रहणानां स्वरूपनिमशानां प्रतिभानाद् न कर्तु कर्म -क्रियाव्यवहृतिः । अन्त्ये च तत्राप्यपरग्रहणक्रियाग्राहकान्तरापेक्षायामनवस्था, इति विनिर्मुक्तग्राह्य-ग्राहक-भाव स्वसंवित्तिमात्रवाद एव साधीयान्; तदुक्तम् -
" नान्योऽनुभाव्यो बुद्ध्यास्ति तस्य नानुभवोऽपरः । ग्राह्य-ग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ १ ॥ " इति ।
कथं तर्हि ‘नीलमहं बेनि' इति कर्म-कर्तृ-भावाभिनिवेशी प्रत्ययः, कर्म-कर्तृभावस्याभावात् ? इति चेत् । यथा रजतमन्तरेणापि शुक्तिकायां रजतावगमः । बाधकाभावाद् न तद्वदस्य भ्रान्तत्वमिति चेत् । न, स्वरूपासंसक्तयोर्द्वयोः स्वातन्त्र्योपल| म्भस्य कर्म-कर्तृभावोल्लेखे बाधकत्वात् । किं तत्र भ्रान्तिवीजम् ? इति चेत् । पूर्वभ्रान्तिरेव तत्रापि पूर्वभ्रान्तिः इति बीजाङ्करस्थलीयाऽनवस्था; तदुक्तम्
For Private & Personal Use Only
सटीकः ।
स्तबकः । 114 11
1189311
www.jainelibrary.org