SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ तदभावप्रत्यक्षस्यानापादनादिति दिक् ॥ ९॥ ___'घटादिर्न ज्ञानभिन्नः, प्रत्यक्षत्वात् , तत्स्वरूपवत्' इत्याशयेनाह-- विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्त्ययोगतः। अतस्तवेदने तस्य ग्रहणं नोपपद्यते॥१०॥ विज्ञानं, यत्- यस्मात्कारणात् , स्वसंवेद्य- स्वत एव स्फुरदूपम् , तथानुभूते; न त्वर्थः परपरिकल्पितः स्वसंवेद्यः । कुतः ? इत्याह-युक्त्ययोगतः- युन्यभावात् , सर्वस्य सर्वज्ञताद्यापत्तेः । अतस्तद्वेदने विज्ञानानुभवे, तस्य-परपरिकल्पितस्यार्थस्य, I ग्रहण- ज्ञानम् , नोपपद्यते; तथाहि-'ज्ञानविषयताया इन्द्रिय-संनिकर्षादिनियम्यत्वाज्ज्ञानस्याऽर्थस्य च परतः प्रकाश एव' इति E नैयायिकादीनां मतं न युक्तम् , स्वसंवेदनस्य प्रसाधितत्वात् , प्रत्यक्षव्यवहारे प्रत्यक्षत्वस्यैव प्रयोजकत्वात् , कचित् प्रत्यक्षत्वस्य | क्वचिच्च प्रत्यक्षविषयत्वस्य तथात्वे गौरवात् , नीलज्ञानत्वाद्यपेक्षया नीलत्वादेरेव चक्षुरादिजन्यतावच्छेदकत्वे लाघवाच्च । एतेन 'ज्ञानाभेदः संनिकादिश्च ज्ञानविषयतायां नियामकः, इति ज्ञानस्य स्वप्रकाशत्वम् , अर्थस्य च परतः प्रकाशत्वम्' इत्यन्येषामपि | मतं प्रत्याख्यातम् , विषयताया ज्ञानस्वरूपत्वात् , ज्ञानभिन्नस्य ज्ञानाविषयत्वात् । अथ 'नीलस्य प्रकाशः' इति प्रतीतेीलप्रकाशयोर्भेद इति चेत् । न, विवेकेनाप्रतीयमानयोनील-तत्संविदोर्भेदाभावात् ; 'अन्यथा नीलस्य स्वरूपम्' 'प्रकाशस्य प्रकाशता' इत्यादावपि भेदसिद्धिप्रसङ्गात् , अभेददर्शनबाधकस्याप्युभयत्र तुल्यत्वात् । न चार्थमन्तरेणाप्रतीयमाना बुद्धिरर्थ RECORIA कान १ ख. ग. घ. च. ज. 'युक्तियो' मुद्रितेऽपि चायमेव पाटः । Jain Education Intema For Private & Personel Use Only SODainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy