SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। शास्त्रवार्ता-च्छिन्नतत्सत्त्वस्य व्याप्यतायां कार्यकारणभावस्यापि तर्कत्वात् । न चैवमभावानुपलब्धिर्भावप्रत्यक्षेऽपि हेतुः स्यात् , भाव- समुच्चयः ज्ञानस्य निर्विकल्पादेरधिकरणानिश्रितस्याप्युत्पादार्थ तत्र महत्त्वादेरेव हेतुत्वस्वीकारात् । इति चेत् । ॥१७३॥ न, व्यापकत्वेनाभिमतस्योपलम्भस्य लौकिकस्य विवक्षणे स्तम्भपिशाचान्योन्याभावादेः, गुडतिक्तत्वाभावादेवाप्रत्यक्षत्वप्रसङ्गात् । प्रतियोग्यंशेऽधिकरणांशे च तादृशलौकिकोपलम्भरूपसाध्यामसिद्ध्या व्याप्यताया असंभवात् । एतेन 'पिशाचत्वं यदि स्तम्भवृत्तिजातिः स्यात् स्तम्भविशेष्यकलौकिकोपलम्भकपकारः स्यात् , इत्यापादनं संभवत्येव, इति स्तम्भविशेष्यकलौकिकप्रत्यक्षे पिशाचत्वप्रकारत्वाभावस्य हेतुत्वाद् न दोषः' इत्यपि निरस्तम् , तस्य सदासत्वेनाहेतुत्वात् । तादृशोपलम्भस्यालौकिकस्य विवक्षणे च प्रतियोगिसत्वस्याव्याप्यत्वात् । तदधिकरणवृत्त्यलौकिकोपलम्भकावच्छिन्नप्रतियोगिसत्त्वस्यालौकिकोपलम्भव्याप्यत्वे च भूतलादौ पिशाचात्यन्ताभावादिग्रहप्रसङ्गात् ; यावत्प्रतियोग्युपलम्भकावच्छिन्नस्य व्याप्यत्वोक्तावुदयनीययोग्यतायामेव पर्यवसानाच्च । 'योग्यप्रतियोगिकत्वं संसर्गाभावग्रहे योग्यता, योग्याधिकरणत्वं चान्योन्याभावग्रहः' इत्यपि तुच्छम् , मनस्त्वात्यन्ताभावादेर प्रत्यक्षत्वापातात् , घटादौ परमाणुभेदादेः प्रत्यक्षतापाताच्चेति ।। तस्माद् भावप्रत्यक्ष इवाभावमत्यक्षेऽपि महत्त्वादीनां हेतुत्वाद् विशिष्य घटाभावप्रत्यक्ष आलोकसंयोगादीनां हेतुता चाच्या; सापि वक्तुं न शक्यते, मेचकादिचाक्षुषे व्यभिचारात् , इति घटाभावाद्याकारे तत्कुर्चद्रूपसमनन्तरत्वेनैव हेतुता युक्तति चेत् । न, स्ववासनया कथंचित् स्वयं बाह्याभावानुभवेऽपि परं प्रति तत्साधनार्थ प्रयोगानुपपत्तेः, तूष्णींभावेन कथायां निग्रहात् , बाह्यत्वस्य ज्ञानभिन्नत्वरूपस्यातीन्द्रियत्वेन तद्धटित घटोपलम्भस्य तु पिशाचवद् घटोपलम्भस्येवापादयितुमशक्यत्वेन ॥१७३॥ Jain Education Inter For Private & Personel Use Only Pariww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy