SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ लम्भस्य दोषाभावप्रयुक्तत्वात् तत्तदोषाणामपि तत्तुल्यतया निवेशे चातिगौरवात् भङ्गयन्तरेणोदयनीय योग्यतोक्तिरेवेयमिति दिक् । 'प्रतियोगित्वप्रसञ्जनमसञ्जित प्रतियोग्युपलम्भाभावः' इति चिन्तामणिकारीया योग्यता, प्रतियोगिसत्वव्यापकोपलम्भविषयप्रतियोगि काभावत्वं योग्यतावच्छेदकमिति फलितम् । नत्वापादनात्मकज्ञानमप्युपयुज्यते, तदभावेऽप्यभावप्रत्य क्षात् । तत्र शुद्धं प्रतियोगिसत्वं व्याप्यम्, किश्चिदवच्छिन्नं वा ? । नायः, तत्सत्त्वेऽपि कारणान्तराभावादनुपलम्भेन व्यभिचारात् । न द्वितीयः, जलपरमाणौ पृथिवीत्वाभावप्रत्यक्षतापातात् तत्रापि महत्त्वादिविशिष्टपृथिवीत्वेनोपलम्भापादनसंभवात् । न च पक्षावृत्तिविशेषणानवच्छिन्नयत्सच्वोक्तौ निस्तारः, तथापि गन्धवदणुभिन्नत्वे सति पृथिवीत्वेन तत्र तदापादनसंभवात् । अथ यदधिकरणवृत्तिप्रतियोग्युपलम्भकातिरिक्तानवच्छिन्नं यत्सत्वमुपलम्भव्याप्यमिति वाच्यम्, गन्धवदणुभिन्नत्वादिकं न न प्रतियोग्युपलम्भकमिति न दोषः, यद्धर्मावच्छिन्नसत्त्वं यद्धर्मावच्छिन्नोपलम्भव्याप्यं तद्धर्मावच्छिन्नोपलम्भाभावस्य तद्धर्मावच्छिन्नाभावप्रत्यक्षहेतुत्वाद् न गुरुत्ववद् घटाभावादिप्रत्यक्षता, न वाकाशादिभेदस्य तथात्वम्, शब्दाश्रयत्वादेर योग्यत्वात्, न वा घटत्वात्यन्ताभावस्य घटेत वृत्तित्वघटितत्वेनायोग्यत्वात् । शूद्रत्वाद ब्राह्मणत्वाभावस्तु सुतरां न प्रत्यक्षः, तदधिकरणवृत्तिप्रतियोग्युपलम्भकमात्रावच्छिन्नेन तत्सखेनापादयितुमशक्यत्वात्, तत्र विशुद्धमातापितृजन्यत्वज्ञानस्यापि व्यञ्जकत्वात् । न चैवं तमस्यालोकनियतघटाद्यभावप्रत्यक्षापत्तिः, तत्र प्रतियोगिसत्त्वस्यैव व्याप्यत्वादिति वा च्यम् प्रतियोगिस वस्योपलम्भव्याप्यतायां निरुपाधिसहचारातिरिक्ततर्कवत्त्वस्य विवक्षितत्वात् प्रतियोग्युपलम्भकाव Jain Education International 1 For Private & Personal Use Only " www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy