________________
शास्त्रवा- समुच्चयः। ॥१७२।।
त्यन्ताभावे तु पूर्वैव योग्यता। अत एव न जलपरमाणों पृथिवीत्वाभावप्रत्यक्षम् , तत्र तदनुपलम्भस्य तन्मात्रप्रयुक्तत्वा सटीकः। भावात् , अधिकरणे महत्त्वाभावस्यापि प्रयोजकत्वात् । ब्राह्मण्याभावस्तु शूद्रादौ न प्रत्यक्षः, विशुद्धिज्ञानस्य तव्यञ्जक- स्तबकः। स्याभावात् । न च य एव गगनादौ भूतलविशेष्यकोपलम्भविषयत्वाभावः, स एव घटादौ, आश्रयभेदेनाभावाभेदादित्यनुपपत्तिः, व्याप्यवृत्तित्वा-व्याप्यवृत्तित्वाभ्यां तद्देदात , यद्धर्मावच्छिन्नप्रतियोगिकत्वावच्छेदेनोक्तमयुक्तत्वविवक्षणाद्वा । संयोगप्रत्यक्षे च न संयोगिद्वयमत्यक्षमपि हेतुः, मिथःसंयुक्तयोरन्यावच्छेदेनोपलम्भेऽपि संयोगापत्ययात् , संयोगिनः संनिकर्षघटकतयैवोपयोगित्वात् , इति न तदभावप्रत्यक्षानुपपत्तिः' इत्याहुः।
तदपि न, धारावाहिकाभावप्रत्यक्षानुपपत्तेः, तत्र बाधस्याऽप्यनुपलम्भप्रयोजकत्वात् । न च धर्मितावच्छेदकामिश्रितोपलम्भस्याभावस्तन्मात्रप्रयुक्त इति स एव वाच्यः, बाधाभावोऽपि वा विरहप्रतियोगिकोटौ निवेश्य इति वाच्यम् , तथापि भूतले घटानुपलम्भस्य घटालोकसंयोगाभावप्रयुक्तत्वेन तन्मात्रप्रयुक्तत्वाभावात् । न च तत्संनिकर्षातिरिक्तप्रतियोग्युपलम्भकतावच्छेदकावच्छिन्नविरहापयुक्त इति मात्रान्तार्थः, भूतले आलोकसंयोगसत्वाद् न तद्विरहः, द्रव्यचाक्षुषे आलोकसंयोगत्वेनैव हेतुत्वात् , अतिप्रसङ्गस्य विषयनिष्ठसामानाधिकरण्येनैव वारितत्वात् , अत एव घटाकाशसंयोगाद्यध्यक्षत्वस्य घटाकाशसंयोगादीनां गुरुत्वादिवदयोग्यत्वेन प्रयुक्तत्वेऽपि न क्षतिः, गुरुत्वादिभेदस्य सामान्यत एव प्रत्यक्षहेतुत्वादिति वाच्यम् । संनिकर्षस्यापि त्यागापत्तेः; यद्विरहमात्रप्रयुक्तत्वोपादानेऽपि दोषाभावाच्चक्षुःसंयोगत्वेनैव चाक्षुषहेतुत्वात् , घटाभावभ्रमानुपपत्तेश्च, तत्र घटानुपलम्भस्य दोषप्रयुक्तत्वात् । न च तत्तद्दोपाभावोऽपि तत्तुल्यतया निवेश्यः, इदादी वयादिभ्रमाभावरूपवढ्याउनुप
R
॥१७२॥
Jan Education
For Private Personal use only
www.jainelibrary.org