________________
यत्किञ्चिदुपलम्भयोग्यत्वग्रहणे च रूपसामान्याद्यभावप्रत्यक्षतापत्तेः । किश्च, यत्किश्चित्संबन्धेन तदुपलम्भकतावच्छेदकाश्रयसत्त्वमतिप्रसक्तम् , नियतसंबन्धेन च रूपादेर्वायावभावात् तत्र तदभावप्रत्यक्षतानापत्तिः । एतेन 'प्रतियोगिग्राहकत्वाभिमतेन्द्रियजन्यभावविषयकयावद्ग्रहनिष्ठकार्यताभिन्नप्रतियोगिग्रहनिष्ठकार्यताप्रतियोगिककारणताकत्वमसाधारणत्वम् , 'भावविषयक-' इति विशेषणाद् नालोकादेरसाधारण्यम् । प्रतियोगिग्राहकत्वाभिमतेन्द्रियजन्यभावविषयकयावद्ग्रहजनकतावच्छेदकावच्छिन्नं प्रतियोगिभिन्नं यावत्तत्समवधानं योग्यतेति फलितम् । वायौ रूपाभावाप्रत्यक्षतावारणाय प्रतियोगिभिन्नेति तीति (?) निरस्तम् , ब्राह्मण्याभावादेः प्रत्यक्षतापातात, यावदुपलम्भकावच्छिन्नाभावत्वेन स्वरूपयोग्यत्वेऽविनिगमात् , अभावावच्छिमतावदुपलम्भकानामपि हेतुत्वसंभवात् , अनुपलब्धिकुक्षिनिक्षिप्तत्वेनेन्द्रियादेरभावप्रत्यक्षहेतुत्वोच्छेदाच्च ।
केचित्तु- 'यद्धर्मावच्छिन्नमतियोगिनि प्रतियोगितत्सन्निकर्षविरहमात्रप्रयुक्तो यदधिकरणविशेष्यकलौकिकोपलम्भविषयत्वाभावस्तदधिकरणे तद्धर्मावच्छिन्नाभावो योग्यः। तत्प्रयुक्तत्वं च स्वरूपसंबन्धविशेषः, 'कारणाभावप्रयुक्तः कार्याभावः' इति प्रत्ययात् । अस्ति चेदमालोकादिमति भूतले, तत्र घटानुपलम्भस्य तन्मात्रप्रयुक्तत्वात् । एवं स्तम्भे पिशाचानुपलम्भेऽपि बोध्यम् , पिशाचत्वादेरयोग्यत्वे मानाभावात् , सहकारिविरहादेव कार्याभावाद् नित्यस्येति व्याप्तेरसिद्धः । भूतले पिशाचानुपलम्भस्तु न तन्मात्रप्रयुक्तः, उद्भूतरूपाभावस्यापि तत्र(?)प्रयोजकत्वात् । अस्तु वाऽन्योन्याभावे प्रतियोगितावच्छेदकतत्संनिकर्षविरहमात्रप्रयुक्तस्तदधिकरणीयलौकिकोपलम्भप्रकारत्वाभावः प्रतियोगितावच्छेदकनिष्ठ एव, तथा पिशाचादेरनुपलम्भस्य योग्यत्वप्रयोज्यत्वेऽपि पिशाचत्वादेः स्तम्भेऽनुपलम्भस्यातथात्वात् , योग्यव्यक्तित्तित्वनैव जातेोग्यत्वात् । अ
Jain Education
For Private & Personel Use Only
www.jainelibrary.org