SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। स्तबकः। समुच्चयः। ॥१७१॥ GREE स्यापि बाह्यघटाभावग्रहाप्रतिरोधित्वात् , विषाणाकारग्रहस्य शशविषाणाभावग्रहाप्रतिरोधित्ववत् , अतः किमुच्यते- 'योग्यानुपलब्ध्यभावाद् न बाह्यघटाभावग्रहः' इति, तत्तदभावाकारज्ञाने तत्तत्समनन्तरस्यैव योग्यतात्वात् । न हि परेणाप्येका योग्यता स्वमतानुरोधेनापि वक्तुं शक्यते; तथाहि- प्रतियोगि-तयाप्येतरयावत्पतियोग्युपलम्भकसमवधानमुदयनाभिमता योग्यता । न चैकत्र कुत्रापि न यावत्तदुपलम्भकसमवधानमिति वाच्यम् , स्वाश्रयसंबन्धे तु तदुपलम्भकतावच्छेदकसमवधानोक्तेः । प्रतियोगिव्याप्यत्वं चात्र न कालिकेन, संनिकर्षस्य घटाद्यव्याप्यत्वात् , घटनाशोत्तरं तन्नाशात् , अणौ पृथिवीवाभावग्रहाप्रसङ्गात् , महत्त्वादेरपि तद्याप्यत्वात् , कालिकेन नित्यव्याप्येतरामसिद्धा; न च दैशिकेन, संनिकर्षस्यापि प्रतियोग्यव्याप्यत्वात् , किन्तु प्रतियोगिग्रहासाधारणकारणत्वम् । अत एव संयोगिनाशजन्यसंयोगनाशप्रत्यक्षम् , तत्र संयोगिनो हेतुत्वेऽप्यसाधारणत्वात् । अत एव च प्रतियोग्युपलम्भप्रागभावस्याभावप्रत्यक्षे हेतुत्वेऽपि न दोषः, तस्यासाधारणत्वात् । संसर्गाभावग्रहे चेयं योग्यता, तेन नातीन्द्रियान्योन्याभावप्रत्यक्षानुपपत्तिदोषः । प्रतियोगितावच्छेदकावच्छिन्नोपलम्भकसमवधानग्रहणाच न पिशाचवद् घटाभावप्रत्यक्षता । न च गुणे रूपाभावाप्रत्यक्षतापत्तिः, तदुपलम्भकमहत्वस्य तत्राभावादि. ति वाच्यम् , एकार्थसमवायेन तदुपलम्भकमहत्त्वस्य तत्र सत्चादित्येतनिष्कर्षः । सोऽयमनुपपन्नः, असाधारणत्वस्य दुर्वचत्वात् , विषयतासंबन्धेन हेतुत्वरूपासाधारणत्वविवक्षण आलोकसंयोगादेरप्यसाधारणत्वापत्तौ तमसि घटाभावादेः प्रत्यक्षतापाता , प्रागभावादेरपि साधारणत्वात् , उपलम्भपदेन प्रतियोगिताबच्छेदकाश्रयाणां यावतामुपलम्भस्वरूपयोग्यत्वग्रहणे महति वायादुद्भूतरूपाभावाप्रत्यक्षतापत्तेः, अणुरूपोपलम्भापसिद्धेः, ॥१७१।। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy