________________
E
प
SPONDS उपमहान.ARTI
M रASAMRAGRAM
PERAPIPRIMPORARLATESANGIRIRE
वासवर
अधिकृतशेषमाहपराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते ॥८॥
पराभिप्रायतः- बाह्यार्थवादिनैयायिकाद्यभिप्रायतः, हि-निश्चितम् , एतदेवमुच्यते यदुत- 'उपलब्धिलक्षणप्राप्तोऽर्थो नोपलभ्यते' इति । अत्र किं तदभिमतानुपलब्ध्यङ्गीकारेण तदभावः साध्यते, उत घटज्ञानात् मागपि घटसत्ताभ्युपगमे तदा तदुपलम्भप्रसङ्गापादनं परं प्रति क्रियत इति ? । आये, तदभिमतेश्वराद्यनुमानाङ्गीकारेणेश्वरादेरभ्युपगमप्रसङ्ग इति स्फुट एव दोषः । अन्त्ये त्वाह-न- नैतदेवम् , यद्- यस्मात् , तस्योपलब्धिलक्षणप्राप्तोऽर्थस्तेनोपलभ्यत एव, अन्यस्य तु न, तदुपलम्भप्रसङ्गात् , तद्ग्राहकेन्द्रिय-संनिकर्षाद्यभावादिति न किश्चिदेतत् ।।८।।
अतत्स्वभावत्वपक्ष आहतदग्रहणभावैश्च यदि नाम न गृह्यते।तत एतावता सत्त्वं न तस्यातिप्रसङ्गतः ॥९॥
तदग्रहणभावैश्च- बाह्याग्रिहणस्वभावैश्च प्रत्ययान्तरैः, यदि नाम न गृह्यते बाह्योऽर्थः, तत एतावता हेतुना, न तस्यासत्त्वम् , अतिप्रसङ्गतः, पीतासंवेदनस्वभावेन तदसंवेदने पीतसंवेदनाभावप्रसङ्गात् । नन्वन्यदर्शनाभ्यासवासनाप्रबोधादुपस्थितस्य बाह्यघटस्यानादिवासनाविशेषप्रबोधोपस्थितस्य शशविषाणस्येवाऽभावग्राहकसमनन्तरे सत्यभावग्रहः सर्वदैव भवति, घटाकारज्ञान
१ मुद्रितमूलादर्श 'अतद्ग्रह' इति पाठः। २ ख. ग. घ. च. 'स्वद' ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org