SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥ १७० ॥ Jain Education I भजन स्वभावत्वं विशिष्टं क्लृप्तमित्याशय इति चेत् । नन्वेवं सत्येव - क्लृप्तेऽप्यर्थे, जनयन्ति - जनयेयुस्तान्यर्थोपलम्भम्, तत्साहित्यघटितस्वभावत्वात्, अन्यथातत्स्वभावता - सहार्थेन तज्जननस्वभावताविलयः स्यादित्यर्थः ॥ ५ ॥ सति वा कदाचित् तेन सह तदुपलम्भं जनयेयुरिति योग्यतायां तज्जननस्वभावत्वं कल्प्यत इत्याशये त्वाहयोग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना । हन्तैवमपि सिद्धोऽर्थः कदाचिदुपलब्धितः॥६॥ अथ तेषां प्रत्ययान्तराणां योग्यतामधिकृत्य तत्स्वभावत्वकल्पना- यदाऽर्थो भवति तदा तदुपलम्भं जनयन्ति, हन्त ! एवमपि, अर्थ:- बाह्यो घटादिः सिद्धः, कदाचित् - यस्मिन् कस्मिंश्चित् काले, उपलब्धितः- उपलम्भसंभवात् ||६|| विपक्षे बाधकमाह अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते ? । न हि लोकेऽश्वमाषादेः सिद्धा पक्त्यादियोग्यता ।। अन्यथा - कदापि तदुपलम्भाजनने, कथं तेषाम् अभिमतप्रत्ययान्तराणाम्, योग्यता- बाह्यार्थोपलम्भजननयोग्यता, युक्त्या - न्यायेन, उपपद्यते, कारणान्तरवैकल्यमयुक्तकार्याभावत्वस्यैव कारणान्तरे योग्यताया लोके व्यवहियमाणत्वात् ? । एतदेव समर्थयति - न हि लोके - व्यवहारिणि लोके, अश्वमाषादे:- कङ्कदुकादेः कदापि पक्त्याद्यजनकस्य, पक्त्यादियोग्यता सिद्धेति ॥ ७ ॥ tional For Private & Personal Use Only सटीकः । स्तबकः । ॥ ५ ॥ ॥ १७० ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy