SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ अत्रोत्तरमधिकृत्याह-- उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः। तेषांच तत्स्वभावत्वेतस्यासिद्धिः कथं भवेत् ॥४॥ _उपलब्धिलक्षणप्राप्तिरिह परेषां तद्धत्वन्तरसंहतिः- प्रतियोगि-प्रतियोगिव्याप्येतरयावत्पतियोग्युपलम्भकसमवधानम् । तेषां च- तदपराभिमतघटायुपलम्भकानां तत्स्थानाभिषिक्तप्रत्ययान्तराणां वा, तत्स्वभावत्वे- बाह्यार्थोपलम्भजननस्वभावत्वे त्वयाभ्युपगम्यमाने, तदसिद्धिः- बाह्यासिद्धिः, कथं भवेत् , तदुपलम्भजननस्वभावहेतुसाकल्यविरोधात् , बाह्यायस्य ज्ञानजनकत्वापचया त्वया प्रतियोगि-प्रतियोगिव्याप्येतरत्वस्य निवेशयितुमशक्यत्वात् , तत्स्थाने तदुपलम्भजनकसमनन्तरान्यत्वनिवेशेऽपि सामग्यननुप्रविष्टानां हेतुत्वोपगमेऽपसिद्धान्तात् ॥ ४॥ कल्पितं तत्र तज्जननस्वभावत्वं न तु वास्तवमिति नापसिद्धान्तः, इत्यभिप्रेत्य शङ्का-परिहारावाह-- सहार्थेन तज्जननस्वभावानीति चेन्ननु । जनयन्त्येव सत्येवमन्यथाऽतत्स्वभावता ॥५॥ सहार्थेन परपरिकल्पितेन, तज्जननस्वभावानि- अर्थोपलम्भजननस्वभावानि प्रत्ययान्तराणि, यदाह न्यायवादी"स्वभावविशेषश्च यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति" इति; तथाचार्थस्य क्लुप्तत्वात् तत्साहित्ये १ ख. ग. घ. च, 'गिव्या' । in Educatan 10 For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy