SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥ १६९॥ Jain Education Int विज्ञानमात्रवादोऽपि परपरिकल्पितः, सम्यग् - विचार्यमाणः, नोपपद्यते यद् - यस्मात् तस्वतः- स्वतन्त्रनीत्यैव, अर्थाभावे किञ्चिद् मानं प्रमाणं, न विद्यते । न चार्थाभावनिश्चयमन्तरेण ज्ञानमात्रमेवेत्यवधारणं युज्यते, तदुक्तम्-“अयमेवेति यो ह्येष भावे भवति निर्णयः । नैप वस्त्वन्तराभावसंविष्यनुगमादृते ।। १ ।। " इति ॥ १ ॥ न चाध्यक्षमर्थाभावे मानमित्याह न प्रत्यक्षं यतोऽभावालम्बनं न तदिष्यते । नानुमानं तथाभूतसल्लिङ्गानुपलब्धितः॥२॥ न प्रत्यक्षमर्थाभावे मानम्, यतस्तदभावालम्बनं नेष्यते, तस्य तुच्छत्वात्, अध्यक्षस्य च स्वलक्षणालम्बनत्वात् । अत एव नानुमानं तत्र मानम्, तस्य तन्मूलत्वेन तदभावे तथाभूत सल्लिङ्गानुपलन्धितः- अर्थाभावप्रतिबद्धसाधुलिङ्गानुपलम्भात् ||२|| स्वभाव कार्य लिङ्गकयोरनुमानयोरत्राभावेऽप्यनुपलब्धिरेव तत्र मानम्, इत्याशङ्कते -- उपलब्धिलक्षणप्राप्तोऽर्थो येनोपलभ्यते । ततश्चानुपलब्ध्यैव तदभावोऽवसीयते ॥ ३ ॥ येन कारणेन, उपलब्धिलक्षणप्राप्तोऽर्थः - बाह्यो घटादिः, परनीत्योपलभ्यते । ततश्चानुपलब्ध्यैव- अदर्शनरूपया, तदभावः - बाह्यार्थभावः, अवसीयते ॥ ३ ॥ १ ख. ग. घ. च. 'नं तस्य' । For Private & Personal Use Only सटीकः । स्तबकः । ॥५॥ ॥१६९॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy