SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ उभयत्र मिलितवृत्तित्वान्वयायोगात् । अत एव न तन्मते 'पञ्चानां प्रदेश: ' किन्तु 'पञ्चविधः' एव, इति व्युत्पादितं नयरहस्ये । अत एव च 'स्याद् घट-पटयोर्न रूपं, स्याद् घट-पटयो रूपम्' इति वाक्यात् तात्पर्यज्ञस्य क्रमिकविधि - निषेधान्वयानुभवः सुघटः, भिन्ननयजन्यान्वयबोधे भिन्ननयजन्यबोधधियोऽप्रतिबन्धकत्वात् प्रत्युत महावाक्यार्थवोऽवान्तरवाक्यार्थज्ञानस्य हेतुत्वेनानुगुणत्वात् । यत्तु - 'घट-पटयोर्न रूपम्' इति वाक्यं तात्पर्यभेदेन योग्यायोग्यम्, घट-पटयो रूपत्वावच्छिन्नाभावान्वयतात्पर्ये योग्यमेव, रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वाभावान्वयतात्पर्ये चायोग्यमेव 'घट-पटयो रूपम्' इत्यादौ च तद्वृत्तित्वस्यापि रूपत्वादिसामानाधिकरण्येनान्वयबोध एव साकाङ्क्षत्वे तु 'एतयोर्घटरूपम्' इत्यपि स्यात्' इति परेषां वासनाविजृम्भितम् । तदसत्, उभयरूपसामान्यस्य प्रत्येकरूपविशेषात्, कथञ्चिद् भेदानभ्युपगमे व्युत्पत्तिभ्रमात् 'घट पटयोर्घटरूपम् इति |जायमानस्य बोस्य प्रामाण्यापत्तेः मम तु स्यादंशबाधेन तदभावात् । किञ्च, एवं 'द्वयोर्गुरुत्वं न गन्धः' इत्यादौ का गतिः, गुरुत्व सामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवी- जलोभयत्वाश्रयवृत्तित्वसाम्यात्, विधिनिषेधविषयार्थानि - रुक्तेः ? । अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपा तत्समव्याप्यातिरिक्तैव वाऽऽधेयताऽर्थः, तत्र च प्रकृत्यर्थस्य तानिष्टनिरूपि तत्वविशेषणान्वयात् पृथिवी - जलोभयविशिष्टा धेयतात्वेन गुरुत्वं विधेयतया, गन्धव निषेध्यतया प्रतीयत इत्युक्तौ च नामान्तरेण गुरुत्वसामान्यस्यैव विधेयत्वम् गन्धसामान्यस्यैव च निषेध्यत्वमुक्तमायुष्मता, अतिरिक्ताधेयताऽनिरूपणात्, अन्यथा 'घट-पटयोर्न घटरूपम्' इत्यादौ सप्तम्यर्थान्वयितावच्छेदक घटरूपत्वादिखरूपाया आधेयताया घट-पटोभयनिरूपिताया Jain Education International For Private & Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy