________________
शास्त्रवार्ता समुच्चयः। ॥१६६॥
सटीकः। स्तबकः। ॥४॥
एतत्- द्विविज्ञेयत्वम्, चेत्- यदि, उपपद्यते तदा को दोषः ? इत्युपस्कारः । अत्रोत्तरम्- नैतदेवम् , तत्सत्यप्रसङ्गतःसामान्यसत्त्वप्रसङ्गात् ॥ १३५॥
सत्त्वेऽपि दोषमाहसत्त्वेऽपि नेन्द्रियज्ञानं हन्त ! तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः१३६
सत्वेऽपि सामान्यस्य, नेन्द्रियज्ञानं, मनोज्ञानोपलक्षणमेतत् , हन्त ! तद्गोचरं- सामान्यगोचरं, मतम- अङ्गीकतम स्खलक्षणविषयत्वेन तदभ्युपगमात् । उपसंहरबाह- इत्येवं- उक्तप्रकारेण, क्षणभेदे तत्वतः- परमार्थतः, द्विविज्ञेयत्वं न शोभते ।
ननु शोभत एव, 'घट-पटयो रूपम्' इत्यादी नैयायिकादीनां रूपे प्रत्येकमुभयवृत्तित्वान्वयवत प्रत्येक द्विविजेयत्वान्वयोपपत्तेः, न हि तेषां रूपत्वे घट-पटोभयवृत्तित्वान्वयः, रूपत्वस्य द्रव्यावृत्तित्वादिति चेत् । न, 'तेषामपि सामान्यविशेषरूपवस्त्वनभ्युपगमे एतदन्वयानुपपत्तेः, संग्रहनयाश्रयणेन घट-पटोभयरूपसामान्योद्भूतत्वविवक्षयैव तदुपपत्तेः, अन्यथोद्भकद्वित्वक्रोडीकरणेनैकतापन्नयोर्घट-पटयोवृत्तित्वान्वयायोगात् , द्वित्वाद् द्वयोर्भेदविवक्षणेन प्रत्येकान्वयस्य तु तदाधेयद्वित्वनिरूपकधर्मयावच्छिन्नवाचकपदोपसंदानस्थल एव व्युत्पन्नत्वात् । यथा 'घट-पट योर्घट-पटरूपे'इति । व्यवहाराश्रयणात्तु प्रकृतप्रयोगोऽनुपपन्न एव, रूपपदादेकरूपेणोपस्थितियोग्यस्यापि रूपस्य भिन्नाश्रयवाचकपदसमभिव्याहारेण भेदविवक्षावश्यकत्वात.
नैयायिकानाम् । २ व्यवहारनयापेक्षया तु ।
RRESE
|॥१६६॥
Jain Education initial
For Private Personel Use Only
www.jainelibrary.org