________________
Jain Education Internatio
इन्द्रियेण - इन्द्रियज्ञानेन परिच्छिन्ने- गृहीते, रूपादौ विषये तदनन्तरम् - इन्द्रियपरिच्छेद्यरूपाद्यनन्तरम्, यद्रूपादितज्ज्ञानसमानकालभावि, ततः - इन्द्रियपरिच्छेदात् समनन्तरात्, तत्र तज्ज्ञानसमानकालभाविनि रूपादौ, मनोविज्ञानं प्रवर्तते - ग्रहणव्यावृतं भवति । तदाह न्यायवादी- "स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम्” इति ।। १३३ ॥
निगमयति---
एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः । पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् १३४ एवं च न्यायात् उक्तयुक्तेः, पञ्चानामपि रूपादीनाम्, द्विविज्ञेयत्वभावतः - इन्द्रिय- मनोविज्ञेयत्वोपपत्तेः, न विरोधोऽस्त्युक्तवचनस्य, इति चेत् । अत्रोत्तरम् - एतदपि उक्तम्, असमञ्जसम्- अयुक्तिमत् ॥ १३४ ॥
कुतः ? इत्याह
नैकोऽपि यद् द्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसङ्गतः॥१३५॥ यद्यस्मात् कारणात्, एकोऽपि पश्चानां मध्य एवं न द्विविज्ञेयः, एकैकेन- इन्द्रियज्ञानादिना एतदुत्तरं 'एकैकस्य' इति शेषः, एकैकस्यैव वेदनात् तथाच न केषुचिद् द्विविज्ञेयत्वमित्यर्थः । परः शङ्कते - सामान्यापेक्षया - रूपादिसामान्यापेक्षया,
For Private & Personal Use Only
ainelibrary.org