________________
शास्त्रवार्ता
'पश्च बाह्याः- रूपादयः, द्विविलेयाः- इन्द्रिय-मनोविज्ञानग्रायाः, इत्यन्यदपि चा प्रक्रान्तार्थप्रसाधकम् - अक्षणिक
स्तबका। समुच्चयः। वप्रसाधकं परापेक्षया, प्रमाणमवगन्तव्यम् ॥ १३०॥ ॥१६५॥
॥४॥ कथमेतदेवम् ? इत्याहक्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः १३१०
यतोऽमीषा रूपादीनाम्, क्षणिकत्वे- क्षणानन्तरं नाशशीलत्वे, द्विविज्ञेयता न भवेत् , हि- यतः, आभ्यां- इन्द्रियTo मनोभ्या, भिन्नकालाहे कालभेदेन ज्ञानद्वयजनने, तच्छब्दार्थोपपत्तितः, द्विविज्ञेयत्वशब्दार्थस्य घटमानत्वात् ॥ १३१ ॥
एकदापि ताभ्यां ज्ञानयजननाद् द्विविज्ञेयत्वमुपपत्स्यत इत्यत्राहएककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता । गृहीतग्रहणादेवं मिथ्या ताथागतं वचः॥१३२॥
एककालग्रहे तु- एकदेन्द्रिय-मनोभ्यां ज्ञानद्वयजनने तु, तत्र- तयोर्मध्ये, एकस्य- अभिमतैकस्प, गृहीतग्रहणादप्रमाणता स्यात् । एवं सति ताथागतं- बौद्धं, वच:- 'पश्च बाह्या द्विविज्ञेयाः' इति, मिथ्या- अप्रमाणं स्यात् ॥ १३२ ॥
पराभिप्रायमाह-- इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम्। यद् रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते॥१३३॥ ॥१६५।।
Jain Education
For Private
Personel Use Only
swww.jainelibrary.org