________________
VISHALA
तद्देशना- 'क्षणिकाः सर्वसंस्काराः' इत्याद्या बुद्धदेशना, प्रमाणं चेत् तादृशबुद्धविवक्षायाम् । न- नैवम् , यतः सा-उक्तदेशना, अन्यार्था- संसाराऽऽस्थानिवृत्त्यर्था, भविष्यति । तथाच तस्यास्तात्पर्ये प्रामाण्यम् , न तु यथाश्रुतार्थ इति भावः । तत्रापि- तद्देशनाया अन्यार्थतायामपि, किं प्रमाणम् ? इति चेत् । इदं पूर्वोक्तम् , 'ईत एकनवते' इत्यादिकम् , आर्षम् । न च क्षणिकत्वदेशनान्यथानुपपत्त्या उक्तदेशनाया अन्यार्थत्वम् , एतदन्यथानुपपत्त्या वा क्षणिकत्वदेशनाया इत्यत्र विनिगमकाभावः, क्षणिकत्वपक्ष उक्तदोषोपनिपातस्य तद्देशनाया अन्यार्थत्वे विनिगमकत्वादिति भावः ॥ १२८ ॥
आन्तिरविरोधमाहतथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्त्र्य स्वयमेव तु१२९
तथा, अन्यदपि विरुद्धम् , यत् कचित्-मूत्रान्तरे, भगवता-बुद्धन, भिक्षुनामन्त्र्य खयमेव कल्पस्थायिनी पृथिव्युक्ता, कि कैप्पहाई पुहई भिक्खवो !' इति वचनात् । पृथिवीसंततेः कल्पस्थायित्वोक्तेने दोष इति चेत् । न, एकवचनतानुपपत्तेः। सांवृतमेकत्वमिति चेत् । कल्पस्थायित्वाद्यपि तथास्तु, इति सर्व विलुप्येत । तस्माद् यथाश्रुतार्थ एव ज्यायान् ॥ १२९ ।।
तथा, पञ्च बाह्या द्विविज्ञेया इत्यन्यदपिचार्षकम्।प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम्॥१३०॥
१ कारिका १२४ । २ कल्पस्थायिनी पृथिवी भिक्षवः!। काल्पनिकं भवत्वित्यर्थः ।
Jan Education Intema
For Private
Personel Use Only
How.jainelibrary.org