________________
शास्त्रवार्ता- संतानापेक्षयैतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तद् 'मे' इति न संगतम् ॥ १२६ ॥ एतत्- 'ईत एकनवते' इत्यादि, चेद् भगवता संतानापेक्षयोक्तम्, 'ननु' इत्याक्षेपे, सः- संतानः, यद् - यस्मात् हेतु- फलभावः, तत् तस्मात् 'मे' इति न संगतम् हन्तृक्षणनिष्ठाया वधक्रियाया उच्चारयितृक्षणवृत्तित्वाभावादिति भावः ।। १२६ ।।
समुच्चयः। ॥१६४॥
*
अभिप्रायान्तरं निराकुरुते -
ममैव हेतुशक्त्या चेत्तस्यार्थोऽयं विवक्षितः । नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥१२७॥ तस्य- 'शक्त्या मे' इत्यस्य, 'ममैव हेतुशक्त्या' इत्ययमर्थो विवक्षितः, शक्तिपदस्य हेतुशक्त्यर्थत्वात् 'मे' इत्यस्य च 'मम' इत्यर्थात् 'मे' इत्यस्यैव लक्षणया 'मदीयहन्तृक्षणेन' इत्यर्थाद् वेति चेत् । नात्र- ईदृशेऽर्थे, प्रमाणं किञ्चित्, यतस्तद्विवक्षा- बुद्धविवक्षा, अत्यक्षा- अतीन्द्रिया, मता; अतस्तादृशबुद्धविवक्षायां नाध्यक्ष, न वा तन्मूलमनुमानमिति भावः ॥ १२७||
Jain Education Int
तदीयक्षणिकत्व देशनान्यथानुपपच्या तादृशी बुद्धविवक्षाऽनुमास्यत इत्याह
तद्देशना प्रमाणं चेन्न सान्यर्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ १२८॥
3. कारिका १२४ ॥
For Private & Personal Use Only
सटीकः ।
स्तबकः ।
॥ ४ ॥
॥१६४॥
www.jainelibrary.org