________________
।
TOबाबा
___ इत:- अस्माद् वर्तमानात् कालात् , अतीते काले, मे-मया, शक्त्या- स्वव्यापारेण, पुरुषो हतः- व्यापादितः । तेन कर्मविपाकेन- पुरुषव्यापादनजनितकर्मभोगकालाभिमुख्येन 'रोगेण वेदनावान्' इत्यादौ पुरुषान्वितवेदनायां रोगजन्यत्वान्वयवद् विपाकान्विते कर्मणि तज्जन्यत्वान्वयात , भिक्षवः ! अहं पादे विद्धोऽस्मि कण्टकेन । तेन 'सर्वज्ञत्वात् पश्यतोऽपि कण्टक, कथं पादे कण्टकवेधः ? इत्याशङ्का निवर्ततां भवताम , नियमवेदनीयत्वात् पार्जितकर्मणः, न खेतद् ममापि फलमदचा निवर्तते, इति मा कार्षीत् कोऽपीदृशं कर्म' इति शिष्यान् बोधयितुं बुद्धस्यैवमुक्तिः ॥ १२४ ॥
अत्र च यथा विरोध आपद्यते तथाहमे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया। स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः?॥१२५॥
अत्र 'मे मया' इत्यात्मनिर्देशः, अस्मच्छब्दस्य स्वतन्त्रोच्चारयितरि शक्तत्वात् । षष्ठ्यन्तास्मच्छब्दस्य 'मे' इति रूपभ्रमवारणाय 'मया' इति विवरणम् । तद्गता- आत्मगता, वधक्रिया खयमाप्तेनोक्ता, यद्-यस्मात् , तृतीयाया आधेयत्वार्थत्वात् , हन्तेः प्राणवियोगानुकूलव्यापारार्थत्वात् , क्तमत्ययस्य च तज्जन्यफलशालित्वरूपकर्मत्वार्थत्वात् । तत्- तस्मात् कारणात् , कोऽयम्- अप्रामाणिकः, वः- युष्माकं, क्षणिकताऽऽग्रहः?, बुद्धेन कर्तृ-भोक्त्रोरभेदे प्रतिपादिते तदवगणनेन तद्भेदाभ्युपगमानौचित्यादिति भावः ॥ १२५॥
अत्रैवाक्षेप परिहारावाह
PANE
ANS.jainelibrary.org
Jnin Education Intern
For Private Personal Use Only