________________
Jain Education International
इत्येवम् उक्तप्रकारेण, शब्दार्थादेव उक्तवाक्यतात्पर्यपर्यालोचनादेव, अन्वयापत्ति:- अन्वयधीः जायते । अनिरूपितत्वादेरभेदस्य वस्तुतः संसर्गत्वेऽपि सार्वज्ञ्यापच्या सांसर्गिकज्ञानस्यानुपनायकत्वात् कथमन्वयापत्तिः ? इति चेत् । 'घटो नास्ति' इत्यादौ घटत्वावच्छिन्नप्रतियोगित्वादेरिवाक्षेपलभ्यत्वात् 'मृद् घटजननस्वभावा' इत्यादिवाक्याद् मृदि घटान्वयबोधदर्शनात् । अन्यथाकल्पनं चास्य- शब्दार्थस्य 'तत् तज्जननभावम्' इत्यादेः 'तदनन्तरं तद्भावः' इत्यादिरेवार्थः, तत्परिणामित्वबोधस्तु नौत्तरकालिकोऽपि, इत्यादिकल्पनं च सर्वथा - सर्वप्रकारेण, न्यायवाधितम् अनुभवविरुद्धम्, तदानन्तर्यस्याप्येकान्तभेदे वक्तुमशक्यत्वाद् युक्तिविरुद्धं च ॥ १२० ॥
किञ्च,
तद्रूपशक्तिशून्यं तत्कार्य कार्यान्तरं यथा । व्यापारोऽपि न तस्यापि नापेक्षासत्त्वतः क्वचित् ॥
तद्रूपशक्तिशून्यं - मृदादिकारणरूपशक्तिशून्यम्, तत्- अधिकृतं घटादि कार्यम्, कार्यान्तरं पटादि यथा तथा बिलक्षणं न स्यात्, मृदायन्ययाभावेन तदानन्तर्यमात्रस्य पटादिसाधारण्येनानियामकत्वात् । तथा, व्यापारोऽपि न तस्यापि - कारणस्यापि कार्ये कश्चिद् नियामकः, क्षणिकत्वेन निर्व्यापारत्यात् सर्वधर्माणाम् । तथा, स्वतोऽसच्चात् तुच्छत्वात् कार्यस्य स्वत्वप्रत्तिपत्तिं प्रति नापेक्षाऽपि, कचित्- कारणे 'कचिदेवासति कारणेन सच्चाधानम्, नान्यत्र' इत्यत्र वीजाभावात्, अविशिष्टसवस्य विशिष्टता तु दृष्टत्वात् कारणात्रेया नानुपपचेति भावः ॥ १२१ ॥
For Private & Personal Use Only
ww.jainelibrary.org