________________
शास्त्रवातोंसमुच्चयः ॥१६२॥
घटादतिरिक्ते जनने निरूपितत्व संबन्धकल्पने तत्रापि संबन्धान्तरकल्पनेऽनवस्थानात्, अभेदे च चित्रप्रतीतेर्भेदानुवेधेन समाधानात्, तथोल्लेखन प्रतीतेस्तथाक्षयोपशमाधीनत्वात् । न चैवं 'मृद् घटीभूता' इतिवद् 'दण्डोऽपि घटीभूतः' इति व्यवहारः स्यात्, तज्जननस्वभावत्वघटकाभेदाविशेषादिति वाच्यम्; तस्य तज्जननस्वभावत्वव्यवहारनियामकत्वेऽप्युपादानत्वघटकाभेदस्यैवं व्यर्थत्वादिति दिग् ॥ ११८ ॥
तत् तज्जन्यस्वभावमित्यत्राप्येवमेवान्वयबोध इत्यतिदेशमाह -
एवं तज्जन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भावः स चेतरसमाश्रयः ११९ ॥
एवम् उक्तन्यायेन, तज्जन्यभावत्वेऽपि - मृदादिकारणजन्यस्वभावत्वेऽपि घटादिकार्यस्योच्यमाने, एषा - तद्भावसंगतिः, भाव्या- पर्यालोचनीया, विचक्षणैः- न्यायज्ञैः । कुत: : इत्याह-यतः - यस्माद्, हि- निश्चितम्, तदेव - जन्यत्वमेव, भावः - घटादेः स्वसत्तालक्षणः, स चेतरसमाश्रयः - मृदादिकारणस्वरूप इति । एवं च घटेऽभेदेन मृदन्वितजन्यत्वान्वितस्वभावान्वयाद् घटान्वय इति तात्पर्यार्थः ॥ ११९ ॥
उपसंहरति
इत्येवमन्वयापत्तिः शब्दार्थादेव जायते । अन्यथाकल्पनं चास्य सर्वथा न्यायबाधितम् १२०
१ ज 'व व्यर्थ' । 'व तदर्थ' इति तु योग्यं प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः ।
118 11
॥ १६२॥
www.jainelibrary.org