________________
कविषयत्वेन तस्य स्वभावत एवासंनिहितप्राप्यविषयत्वात् । इदमेव हि दृश्य-प्राप्ययोरेकीकरणं यद् दृश्यविषयतयाध्यस्यमानस्य प्राप्यविषयत्वं, विशेषणमात्रविषयत्ववचनं च विकल्पस्य संनिहितविशेष्यानवगाहित्वाभिप्रायात् , शुक्तौ रजतधीस्थले बाधावतारे च रजतविशेष्यकरजतत्वप्रकारकत्वाभावरूपाप्रामाण्यग्रहादिति न दोष इति चेत् । न, एवं सति विकल्पस्य विशिष्टविषयत्वावश्यकत्वेऽलीकतदाकारायोगात् , सतोऽसदसंस्पर्शित्वात् , अन्यथा निर्विकल्पकेऽप्यनाश्वासात , निर्विकल्पकप्रामाण्यस्य सविकल्पैकग्राह्यत्वेन तदप्रामाण्ये तदप्रामाण्यादिति न किश्चिदेतदिति दिग । एवं तत्तजननभावत्वग्रहो न | क्षणिकपक्षे, बोधान्वय एव तद्ग्रहसंभवात् , अतो न तव तजननभावत्वसिद्धिरिति प्रघट्टकार्थः ॥ ११७ ॥
अथ तत्तजननभावत्वशब्दार्थपर्यालोचनयाऽप्यन्वयसिद्धिरित्याहतत्तज्जननभावत्वे ध्रुवं तद्भावसङ्गतिः। तस्यैव भावो नान्यो यज्जन्याच्च जननं तथा॥
तत्तजननभावत्वे- तस्य कारणस्य मृदादेस्तज्जननभावत्वे घटादिकार्यजननस्वभावत्व उच्यमाने, ध्रुवं- निश्चितम् , तद्भावसङ्गतिः- कारणभावपरिणतिः, कार्ये उक्ता भवति । कुतः ? इत्याह- यद्- यस्मात् , तस्यैव-जननस्यैव, भावो नान्यः| न जननादर्थान्तरभूतः, असंबन्धप्रसङ्गात् ; जन्याच्च जननं तथा- न भिन्नमित्यर्थः ।।
अयं भावः- 'मृद् घटजननस्वभावा' इत्यत्र घटस्य जनने निरूपितत्वाख्यस्वरूपसंबन्धेन, तस्य च स्वभावे तादात्म्यायखरूपसंबन्धेन, तस्य च मृदि तेनान्वयाद् घटाभिन्नजननाभिन्न स्वभावाभिन्नत्वेन मृदि घटाभिनत्वं स्फुटमेव प्रतीयते
PATI
in Educa
www.jainelibrary.org
t
For Private Personal Use Only
ional
A