________________
शास्त्रवार्ता- अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोऽप्ययम् । यतश्चेष्टस्ततो नास्मात् तत्रासंदिग्धनिश्चयः ।
सटीकः। समुच्चयः1
स्तबकः। ॥१६१॥ अन्यादृशपदार्थेभ्यः- अनित्यादिरूपेभ्य आलम्बनभूतभ्यः, स्वयम्-आत्मना, अयं-विकल्पः, अन्यादृशोऽपि- नित्य- ।॥४॥
त्वादिग्रहरूपोऽपि, यतश्चेष्ट:- अङ्गीकृतः ततो नास्मात- अधिकृतविकल्पात् अप्रत्ययितात् , तत्र- अनित्यत्वादी, असंदिग्धनिश्चयः, अप्रामाण्यज्ञानास्कन्दितत्वात् ।
अथालीकविषयत्वरूपाप्रामाण्यज्ञानेऽपि तत्र दृश्य-विकल्प्ययोरर्थयोरेकीकरणात् तदभाववति तदवगाहित्वरूपाप्रामाण्यज्ञानाभावाद् न दोष इति चेत् । न, रजतत्वारोपस्यासत्यरजतधीस्थलेऽपि सत्चात् सत्यरजतधीस्थले तत्तुल्यताज्ञानेनार्थसंशयात् । एकत्रारजते रजतत्वारोपः, अन्यत्र तु रजते, इति न तत्तौल्यमिति चेत् । न, 'रजते रजतत्वारोपः' इतिवदत एव | व्याघातात् , विकल्पस्य विशेषणमात्रविषयत्वे स्खलक्षणासंस्पर्शाभ्युपगमाच्च । एकत्र स्वजनकाजनकरजतग्रहाभेदग्रहात् सत्यासत्यरजतधीविशेष इति चेत् । न, बाधेऽपि प्रवृत्यौपयिकरूपाव्याघाताद् गृहीतरजतग्रहाभेदग्रहत्वेनैव रजतार्थिप्रवृत्तिहेतुत्वात् ।।
अथागृहीतरजतग्रहभेदं दर्शनमेव रजतार्थिवृत्तिहेतुः, स्वतो निश्चितप्रामाण्यकत्वात् , असत्यरजतधीस्थले च शुक्तिदर्शने रजतग्रहभेदग्रहाद् न प्रवृत्तिः, केवलनिर्विकल्पकादप्रवृत्तेश्च रजतविकल्पसाहित्यं कारणतावच्छेदकमिति न दोष इति चेत् । न, दृश्यविषयस्य दर्शनस्य प्राप्यविषयप्रवृत्त्यहेतुत्वात् , विकल्पा-विकल्पयोर्भिन्नकालत्वेनासाहित्याच्च । अथ दर्शन-प्रयोरेकसंततिगामित्वेन सामान्यत एव हेतु-हेतुमद्भावः, समानविषयतया तु रजतत्वविकल्पस्यैव रजतार्थिप्रवृत्तिहेतुता, अली- ॥१६॥
Jain Education
a l
For Private Personal use only