________________
Jain Education Intern
भावप्रधान निर्देशाद् नश्वरत्वादिपरिच्छेदः, अभ्युपेयः । अस्य च प्रकृतप्रदीर्घाध्यवसायस्य, भ्रान्ततायामुच्यमानायाम्, यत्यस्मात्, तत्- अधिकृतं वस्तु तथा - नश्वरम् इति एतत् न युक्तिमत् न संभवदुक्तिकम् ।। ११४ ।। तस्मादवश्यमेष्टव्या विकल्पस्यापि कस्यचित् । येन तेन प्रकारेण सर्वथाऽभ्रान्तरूपता ११५
तस्माद् विकल्पस्यापि कस्यचित्- नश्वरत्वादिग्राहिणः, येन तेन स्वपरिभाषानुसारिणा प्रकारेण, सर्वथा- सर्वविषयावच्छेदेन, अभ्रान्तरूपता - परमार्थविषयता, अवश्यमेष्टव्या- अकामेनाप्यङ्गीकर्तव्या, तथा च स्वसाक्षिका स्वान्वयिता सिद्धैवेत्यभिप्रायः ।। ११५ ॥
इदमेवाह
सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः । बोधान्वयो दलोत्पत्त्यभावाच्चातिप्रसङ्गतः ॥ सत्यामस्याम्- कस्यचिद् विकल्पस्याभ्रान्ततायाम्, स्थितः सिद्धः, अस्माकमुक्तवत् प्रागुक्तरीत्या, न्याययोगतः - युक्तन्यायात्, बोधान्वयः - ज्ञानाविच्छेदः स्वद्रव्यात्मा । युक्त्यन्तरमाह- दलोत्पत्य भावाच्च- अतथाभावि हेतुकस्योत्पत्ययोगाच्च, अन्यथा, अतिप्रसङ्गतः तद्वत् तदन्यभावापत्तेः ।
न चास्माद् विकल्पादनित्यत्वसिद्धिरित्युपचयमाह
-
For Private & Personal Use Only
ww.jainelibrary.org