________________
शास्त्रवार्ता- समुच्चयः। ॥१६०॥
सटीकः । स्तबकः। ॥४॥
प्रतिभासः, कस्यचित् कथांचत् कयाचित्प्रतिपच्या यथाक्षयोपशमं ग्रहणात् । एतेनातिविशेषणादिग्रहणेऽतिप्रसङ्गः परास्तः; अन्यथैकस्तम्भपरिणत्यापनैकपरमाणुग्रहणप्रवृत्ताक्षस्यापरपरमाणुग्रहणेऽपि सकलपदार्थग्रहणप्रसङ्गस्य दुष्परिहरत्वात् ।
यदपि 'मानस्येव विकल्पमतिः' इत्यभिहितम् । तदप्यसत् , स्तम्भादिपतिभासस्य मानसत्वे विकल्पान्तरतो निवृत्तिप्रसङ्गात् । न चैवमस्ति, क्षणक्षयित्वमनुमानाद् निश्चिन्वतोऽश्वादिकं वा विकल्पयतस्तदैवास्य प्रतिभासस्य संवेदनात । यदपि 'जात्यादेः स्वरूपानवभासनात् तद्विशिष्टार्थधीरयुक्ता' इति गदितम् । तदपि नियुक्तिकम् , स्वसंवेदनवत् सदृशपरिणामस्य प्रमीयमाणत्वेन सत्यत्वात् , एकान्तभेदाभेदपक्षस्यानिष्टेः, 'त एव विशेषाः कथश्चित् परस्परं समानपरिणतिभाजः' इत्यस्मदभ्युपगमे दोषाभावात् , चित्रकविज्ञानवत् समाना-ऽसमानपरिणत्योरेकत्वाविरोधात् । तस्मात् 'सविकल्पकमेव प्रमाणम्' इति व्यवस्थितम् । ततः कथं न बोधान्वयोऽर्थान्वयो वा ? इति परिभावनीयं रहसि । मा स्तु वा त्वन्नये सर्वसविकल्पकपामाण्यम् , तथापि नश्वरत्वादिग्राहिणो विकल्पस्य त्वया प्रामाण्यमवश्यमभ्युपेयम् । तस्य च व्याप्त्यादिपर्यालोचनप्रवणस्यान्वयित्व | मपि स्वसंवेदनसिद्धम् । तदंशे तत्र भ्रान्तत्वे, क्षणिकत्वांशेऽपि तथात्वप्रसङ्गात् , एकस्य भ्रान्ता-ऽभ्रान्तोभयरूपत्वाभावात् ,
भ्रान्तिबीजसाम्याचेत्यभ्युच्चयमाहप्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः। अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत्।११४॥
प्रदीर्घाध्यवसायेन- अन्वयिव्याप्त्यादिपर्यालोचनप्रवाहरूपतयाऽनुभूयमानेन लिङ्गादिविकल्पेन, नवरादिविनिश्चयः-
१६०।।
Jain Education intermelonal
For Private
Personal Use Only
www.jainelibrary.org