________________
तमनुमेयं निश्चिन्वत् प्रमाणं यद्यनुमानम् , तनिश्चितं नील निश्चिन्वन् विकल्पोऽपि किं न तादृशः। अथ समारोपव्यवच्छेदकरणादनुमान प्रमाणम् , तर्हि विकल्पोऽपि तत एव किं न तथा, शुक्तिका-रज्ज्वादिषु रजत-सादिसमारोपाणां तथाभूतविकल्पाद् निवृत्तिदर्शनात् ।। अथ विकल्पस्य प्रामाण्येऽपि नानुमानबहिर्भावः, अनभ्यासदशायां धनुपानं प्रमाणम् , अभ्यासदशायां तु दर्शनमेव, न च तृतीया दशास्ति, यस्यां विकल्पः स्वातन्त्र्येण प्रमाणभावमनुभवेदिति चेत् । न, विकल्पं विना
रूप्यानिश्चयेनानुमानस्यैव न प्रवृत्तिरित्युक्तस्वात् । न च तदपेक्षं दर्शनमेव प्रमाणम् , स्वत एव तस्याप्रमाणत्वात् , विकल्पस्यापि | विकल्पान्तरापेक्षया प्रमाणत्वेऽनवस्थाया दुष्परिहरत्वादिति वाच्यम् , सम्यग्विकल्पस्य स्वत एव प्रमाणत्वात् , दर्शनस्यागृहीतभाव्यर्थप्रवर्तकत्वेऽतिप्रसङ्गात् , अन्यथा 'शाब्दमपि सामान्यमात्राविषयं विशेषे प्रवृत्ति विधास्यति' इति मीमांसकमतमनिषेध्यं स्यात् ।
यत्तु 'स्मृत्युपनीतेऽपि नामादाविन्द्रियामवृत्तेन नामादिविशिष्टार्थग्राहिण्यक्षजा मतिः' इत्युक्तम् । तत्पलापमात्रम् , अर्थास्मकस्य नामवाच्यतादिधर्मस्य विशिष्टक्षयोपशमसव्यपेक्षयाऽक्षधिया प्रतिपत्त्यभ्युपगमात् । तद्वाच्यताप्रतिपत्तिर्मतिः, श्रुतं वा, इत्यन्यदेतत् ।
न च 'विशेषणविशेष्यभावस्यानवस्थानाद् न वस्तुनो विशिष्टप्रतीतिः' इत्यप्युक्तं युक्तम् , अनेकधर्मकलापाक्रान्तस्य वस्तुनो विशिष्ट सामग्रीप्रभवप्रतिपक्या प्रतिनियतधर्मविशिष्टतया ग्रहणात् । न चाहिग्दर्शनेऽशेषधर्माध्यासितवस्तुस्वरूप
1 पक्षसत्त्व सपक्षसाव-विपक्षावश्वरूपम् ।
Jan Education Intema
For Private
Personel Use Only