________________
शास्त्रवार्ता- यतीत्यर्थः, उत तमेवेति, आहोखिजनयत्येवेति । आये, विकल्पवासनापि तत्कारणं न भवेत् । एवं च निर्विकल्पक- सटीकः । समुच्चयः। बोधाद् यथा सामान्यावभासी विकल्पः, तथाऽर्थादेव तथाभूताद् भविष्यति, इति किमन्तरालवर्तिनिर्विकल्पककल्पनया ?।। स्तबकः । ॥१५९|| नचाविकल्पताविशेषेऽपि दर्शनादेव विकल्पोत्पत्तिः, नार्थात, वस्तुस्वाभाव्यादित्युत्तरम् , तस्य स्वरूपेणैवासिद्धेः, 'स्तम्भः
॥४॥ स्तम्भोऽयम्' इतिवत् स्थिरैकस्तम्भावगाहिज्ञानस्य सामान्यविषयत्वात् , ऊर्वतासामान्यापलापे तिर्यक्सामान्यस्याप्यपलापाजगतः प्रतिभासवैकल्यप्रसङ्गात् , निरंशक्षणिकानेकपरमाण्वाकारस्य तस्य सांशत्वेनाभ्युपगन्तुमशक्यत्वात् , प्रतिविविक्तपरमाणु तद्भेदस्य दुःश्रद्धानत्वात् । किञ्च, यथाऽविकल्पादर्थादविकल्पदर्शनप्रभवः, तथा दर्शनादपि तथाभूताद् विकल्पस्यैव | प्रभव इति विकल्पकथाऽप्युच्छिन्ना। द्वितीये, धारावाहिकनिर्विकल्पकसंततिर्न स्यात् । तृतीयेऽपि, अत्यन्तायोगव्यवच्छेदः | स्वभावभेदं विना दुर्घट इति न किश्चिदेतत् । तस्मात् तदुत्पत्ति-सारूप्यार्थग्रहणमन्तरेणाप्यध्यवसायस्य प्रामाण्यं युक्तम् , अनायसत्यविकल्पवासनात एव तदुत्पत्यभ्युपगमे दर्शनस्याप्यहेतुत्वात् “यत्रैव जनयेदेना" इत्याद्यभ्युपगमव्याघातात् ।
न च वासनामवोधविधायकत्वेन तस्यापि हेतुत्वम् , इन्द्रियार्थसंनिधानस्यैव तत्पबोधहेतुत्वात् , 'तद्धतोः' इति | न्यायात् । न च वासनाप्रभवत्वेनाऽक्षजस्यैवं भ्रान्तता स्यात् , अर्थप्रभवत्वेनानुमानवत् प्रमाणत्वात् सामान्यादिविषयत्वस्य
तुल्यत्वात् । न च स्वग्राह्यस्यावस्तुत्वेऽप्यध्यवसायस्य स्वलक्षणत्वाद् दृश्य-विकल्प्यावावेकीकृत्य प्रवृत्तेरनुमानप्रामाण्यम् , | प्रकृतविकल्पेऽपि समानत्वात । न च गृहीतग्राहित्वाद् विकल्पो न प्रमाणम् , क्षणक्षयानुमानस्याप्यप्रामाण्यपसक्तेः । अनिर्णी
AO||१५९॥ १ तमेव- अर्थाध्यवसायमेव ।
Jain Education Inko
For Private & Personel Use Only
alww.jainelibrary.org