SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ शाखवार्ता समुच्चयः ॥१५८॥ स्तबकः। अर्थ तत्फलसाधात् , अक्षणिकत्वादिसमारोपाद् वा क्षणिकत्वाद्यनुभवेऽपि न विकल्पः, अनिश्चयरूपस्याध्यक्षस्य R सटीकः। समारोपाप्रतिपन्थित्वात् , तदुक्तम् ॥४॥ "एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते ॥१॥ नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूप्यसाधर्म्यदर्शनात् ॥ २॥" इति चेत् । न, क्षणिकत्वादाविव सचेतनत्वादावप्यनिश्चयप्रसङ्गात , वस्तुतो निरंशत्वात , अनिश्चितस्यानुभवे मानाभावाच्च । नान्तरीयकत्वादेकानुभवोऽन्यानुभवे मानमिति चेत् । न, चन्द्रग्रहणेऽपि तदेकत्वाग्रहणतस्तैमिरिकदर्शनेन व्यभिचारात , द्वित्वे तस्य भ्रान्तत्वेऽपि चन्द्रेऽभ्रान्तत्वात् , प्रमाणेतरव्यवस्थाया व्यवहारिजनापेक्षत्वात "प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम्" इति त्वयैवाभिहितत्वात् , अन्यथैकचन्द्रदर्शनस्यापि चन्द्ररूपे प्रमाणता, क्षणिकत्वे चाप्रमाणता, इति रूपद्यस्याभ्युपगमविरोधात् । यस्य तु मतम्- 'दृश्य-प्राप्ययोरेकत्वेऽविसंवादाभिमानिनः प्रत्यक्ष प्रमाणम् , इतरस्य तयोविवेके सत्यनुभूतेऽपि न प्रमाणम् । तस्य चन्द्रमाप्त्यभिमानिनः किमिति चन्द्रमाने तद् न प्रमाणम् । अथ दोषजन्ये द्विचन्द्रादिज्ञाने चन्द्रस्यापि न परमार्थसतो भानम् , किन्तु प्रातिभासिकसत्तावलीढस्यारोपितस्यैव, इति न तद्ग्रहात्तदेकत्वग्रहः, अध्यक्षस्यांशे प्रामाण्या१ ज.'थात' । २ इतः 'प्रवृत्तिः' इतिपर्यन्तः पूर्वपक्षः। ॥१५८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy