SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ण्यमेवानुपपन्नं स्यात् । यत्रैव हि पाश्चात्यं विधि-निषेधविकल्पदयं तजनयति तत्रैव तस्य प्रामाण्यम् , विकल्पच शब्दसंयोजितार्थग्रहणम् , तत्संयोजना च शब्दस्मरणाधीना, तच्च संबन्धितावच्छेदकप्रकारकसंबन्धिग्रहरूपार्थधीजन्यमिति, न चेदेवम् , गवानुभवाद् गोशब्दसंयोजनावत् क्षणिकत्वानुभवात् क्षणिकत्वशब्दसंयोजनापि स्यात् । एतेन 'अश्वं विकल्पयतो गोदर्शनेऽपि तदा गोशब्दसंयोजनाभावाद् युगपद्विकल्पद्वयानुपपत्तश्च निर्विकल्पकमेव गोदर्शनम्' इति निरस्तम् , गोशब्दसंयोजनामन्तरेणापि तदर्शनस्य निर्णयात्मकत्वात् , अन्यथा तत्स्मरणानुपपत्तेः, समानप्रकारकानुभवस्यैव समानप्रकारकस्मरणहेतुत्वात् , तत्संशयापत्तेश्च तत्यकारकनिधयस्यैव तत्पकारकसंशयविरोधित्वात् । अन्यथा क्षणिकत्वादावपि स्मरणासंशयप्रसङ्गात् ।। अथ क्षणिकत्वादेनिर्विकल्पकैकवेद्यत्वात् तद्गृहीतकल्पत्वाद् न दोषः, तदाह धर्मकीर्तिः- "पश्यन्नपि न पश्यतीत्युच्यते" इति न दोष इति चेत् । न, तच्चित्तांशेऽपि तथात्वप्रसङ्गात् । तत्र विकल्पोत्पत्तेर्न दोष इति चेत् । न, स्मरणरूपतदनुत्पत्तेरनुत्तरत्वात् । तव विस्तीर्णमघट्टकानुभवे सकलवर्णपदाद्यस्मरणवदुपपत्तिरिति चेत् । न, मम विस्तीर्णप्रघट्टकस्थले वर्णादीनां तज्ज्ञानानां च व्यक्तिभेदाद् दृढसंस्कारस्यैव निश्चयस्य स्मृतिजनकत्वेन नियमसंभवात् । तव तु निरंशानुभवस्यांशे विकल्पजनना-जननस्वभावभेदस्य, शक्तिभेदस्य, पाटवा-ऽपाटवादेर्वा न संभव इत्युक्तत्वात् , 'एकस्यापि सहकारिसाचिव्येन तद्विकल्पस्यैव जनकत्वं, नान्यविकल्पस्य' इत्यभ्युपगमे स्थिरस्यापि सहकारिसाचिव्या-साचिव्याभ्यां कार्यजनकत्वा-ऽजनकत्वाभ्युपगमप्रसङ्गात् । कुम्भकारादिसहकृतस्य मृदादेर्यटाद्यन्वय-व्यतिरेकदर्शनवदभ्यासादिसहकृतस्य निर्विकल्पस्य कदापि विकल्पान्वय-व्यतिरेकाग्रहणेनाभ्यासादिसहकृतस्याविकल्पस्य विकल्पजनकत्वकल्पनाया अन्याय्यत्वाच । Jan Education Inte For Private Personal use only Jr.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy