SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ COPE शास्त्रवार्ता- ममुच्चयः। ॥१५७॥ सटीकः। स्तबकः। ॥४ ॥ कल्पकताप्रसक्तः । दृष्टविपरीता च चिरातीतादीनां जनकत्वकल्पना, अन्यथाऽव्यापारेऽपि धनप्राप्तर्विश्वमदरिद्रं स्यात् । तस्माद् बुद्धज्ञानस्येव विकल्पस्याऽर्थापभवस्यापि वैशद्यमविरुद्धम् । अथ विकल्पस्य सभावत एव वैशद्यविरोधः, तदुक्तम् "न विकल्पानुबन्धस्य स्पष्टार्थप्रतिभासिता । स्वमेपि मर्यते स्मार्त न च तत्तागर्थम् ॥ १॥" इति चेत् । न, स्वमदशायामपि स्मरणविलक्षणस्य पुरोवृत्तिहस्त्याद्यवभासिनो बोधस्य निर्विकल्पकत्वे, अनुमानस्यापि सांशवस्तुग्राहिणस्तथात्वप्रसङ्गे विकल्पवााया एव व्युपरमप्रसङ्गात् । अथ संहृतसकलविकल्पावस्थायां पुरोवर्तिवस्तुनिर्भासि कल्पनाव्युपरमतो विशदमक्षप्रभवमविकल्पकमेवानुभूयतेः तदुक्तम्- "प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति" इत्यादि । तथा, "संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपं वीक्षते साऽक्षमा मतिः ॥ १॥" इति । अतो विकल्पे कदाचित् समनन्तरपृष्ठभाविनि तद्वैशयमेवाध्यारोप्यत इति चेत् । मैवम् , तस्यामप्यवस्थायां स्थिरस्थूरस्वभावशब्दसंसर्गयोग्यपुरोऽस्थितगवादिप्रतिभासस्यानुभूतेः सविकल्पकज्ञानानुभवस्यापहोतुमशक्यत्वात् । न हि शब्दसंसर्गप्रतिभास एव सविकल्पत्वम् , तद्योग्यावभासस्यापि कल्पनात्वाभ्युपगमात् , अन्यथाऽव्युत्पन्नसंकेतस्य ज्ञानं शब्दसंसर्गविरहान कल्पनावद् न स्यात् । अवश्यं च शब्दयोजनामन्तरेणाप्यनिर्णयात्मकमध्यक्षमुपगन्तव्यम् , अन्यथा विकल्पाध्यक्षेण लिङ्गस्याऽप्यनिर्णयात , अनुमानात् तन्निर्गयेऽनवस्थानात् , अनुमानस्याऽप्युच्छेदप्रसङ्गात् । किश्च, एवं तस्य प्रामा- ॥१५७ ।। Jain Education Personal For Private & Personel Use Only NOdwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy