SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ किच, कोऽयं सविकल्पा-विकल्पयोरक्याध्यवसायः। किं तयोवस्तुसदभेदपरिच्छेदः, उत मिथस्तादात्म्याध्यासः । आये, विरोधः । अन्त्ये च, निर्विकल्प 'सविकल्पकम' इति, सविकल्पकं च 'निर्विकल्पकम्' इति प्रतीयेत, 'शुक्ताविदं रजतम्' इतिवत् , न तु विशदाध्यक्षस्वरूपम् । अथ प्रमुष्टनिर्विकल्पकत्वस्य विशदत्वावच्छिन्नस्य निर्विकल्पकस्यैव सविकल्पकेऽध्यारोपाद् न दोषः। एतेन 'अविकल्पकाज्ञानाद् न तदध्यारोपः, न ह्यपतिपन्नरजतः 'शुक्ताविदं रजतम्' इत्यध्यवस्यति, न वेश्वराध्यवसाय ईश्वराद्यध्यासवदुपपत्तिः, भ्रमविशेषाव्यवस्थितेः' इत्युक्तावपि न क्षतिः, पागनुभूतस्यैव विशदस्यात्राभेदाध्यासातः इति चेत । न, वैशयावलीढस्यैव तस्य प्रमीयमाणत्वेन तत्र तदारोपायोगात् । न हि तदपरं किश्चिदनुभूयते यस्य वैशद्यं धर्मः कल्प्येत । एवमपि तत्र तत्परिकल्पने ततोऽप्यपरमनुभूयमानं विशदत्वादिधर्माधारं परिकल्पयतः कस्तव मुखं पाणिना पिधत्ते । अर्थसामर्थ्यप्रभवं वैशयं नालीकग्राहिणि सविकल्पके, किन्तु निर्विकल्पक एवेति चेत् । न, अर्थसामर्थ्यप्रभवेऽपि दरस्थितपादपादिज्ञाने वैशद्यादेरभावात , अनीशेऽपि च बुद्ध्यादिज्ञाने तद्भावाद् वैशद्यादेरयंप्रभवत्वानियमात् । अथ दूरत्वादिदोषाभावोऽपि वैशये नियामकः, बुदवाने च चिरातीतभाविनामपि विषयाणां हेतुत्वाभ्युपगमाद् न दोष इति चेत् । न, चिरातीतादिविषयाणां येन स्वभावेन तत्तदनन्तरभाविकार्योत्पादकत्वम् , तेनैवेदानींतनसुगतज्ञानोत्पादकत्वे प्राक् पश्चाद् वैतदुत्पादप्रसङ्गात , समनन्तरप्रत्ययस्येदानीमेव हेतुत्वे चोभयहेतुस्वभावविप्रतिषेधात् तदनुत्पत्तिप्रसङ्गात् । अथान्येन स्वभावेन, ताई सांशं तत प्रसज्यते, इति तद्ग्राहिणोऽपि ज्ञानस्य सशिकवस्तुग्राहकत्वेन सवि , इतः 'भ्यासात्' इत्यन्तः पूर्वपक्षः । For Private Personal Use Only Emw.jainelibrary.org Jain Education inte
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy