SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो सटीकः। ॥१५६॥ ॥४ ॥ PERISPERO तयोस्तुल्याकारतादर्शनात् । न च तेष्वप्यपरा जातिः, अनवस्थामसनेः, घटत्वादिसामान्येषु जातित्ववजातित्वसहितेष्वपि | तेषु तत्कल्पनानुपरमात् । अथ तुल्याकारापि प्रतिपत्तिर्यदि निनिमित्ता, तदा सर्वदा भवेत् , न वा कदाचित् । व्यक्तिनिमित्तत्वे आम्रादिष्विव घटादिष्वपि तत्प्रसङ्गात् , व्यक्तिरूपताया अन्यत्रापि समानत्वादिति चेत् । न, प्रतिनियतव्यक्तिनिमित्तत्वेनानतिप्रसङ्गात् । यथा हि ताः प्रतिनियता एव कुतश्चिद् निमित्तात् प्रतिनियतजातिव्यजकत्वं प्रपद्यन्ते, तथा प्रतिनियतां तुल्याकारां प्रतिपत्तिमपि तत एव जनयिष्यन्ति, इति किमपरजातिकल्पनया। यथा वा गुडूच्यादयो भिन्ना एकजातिमन्तरेणापि ज्वरादिशमनात्मक कार्य निर्वर्तयन्ति, तथाऽऽम्रादयस्तरुत्वमन्तरेणापि 'तरुस्तरुः' इति प्रतीति जनयिष्यन्तीति किं तरुत्वादिकल्पनया। ततो जात्यादेरभावाद् न तद्विशिष्टाध्यवसायिनी मतिरिति चेत् । अत्रोच्यते- स्पष्टधूमाध्यवसायानन्तरमस्पष्टावभासाग्न्यनुमानाकारस्येव विशददर्शनवपुषोऽर्थाकारादनन्तरमस्पष्टाकारविकल्पधियोऽननुभवादेकहेलयैव स्खलक्षणसंनिधौ जायमानाऽन्तर्बहिश्च स्थूलमेकं स्वगुणावयवात्मकं ज्ञानं घटादिकं वावगाहमाना मतिर्न निर्विकल्पिका । न चानध्यक्षा, विशदस्वभावतयानुभूतेः । न च (स)विकल्पा-विकल्पयोर्मनसोयुगपदवृत्तेः क्रमभाविनोलघुवृत्तेरेकत्वमध्यवल्यति जनः, इत्यविकल्पाध्यक्षगतं वैशय विकल्पे स्वांशस्वार्थाध्यवसायिन्यांध्यारोपयतीति वैशद्यावगतिरत्रेति वाच्यम् ; एवं ह्यनुभूयमानमेकाध्यवसायमपलप्याननुभूयमानस्यापरनिर्विकल्पस्य परिकल्पने, बुद्धेश्चैतन्यस्याप्यपरस्य परिकल्पनया सांख्यमतमप्यनिषेध्यं स्यात् । न्ति, तथाऽऽप्रादयस्तरत्विकल्पनया ? । यथा वा गृहत्यादयन्ते, तथा प्रतिनियता तुल्या ॥१५६॥ Jan Education International For Private Personal use only www.ainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy