SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सर्श च सामान्यग्रहेऽपि विशेषाग्रहात् । किञ्च, वैखरी वाचं न नायनं ज्ञानमुपस्पृशति, तस्याः श्रोत्रमात्रग्राह्यत्वाभ्युपगमात्; FO नापि स्मृतिविषयां मध्यमाम् , तामन्तरेणापि शुद्धसंविदो भावात् । संहृताशेषवर्णादिविभागा पश्यन्ती च वागेव न भवति, बोधरूपत्वात् , वाचश्च वर्णरूपत्वात् , अतो न तयुक्ता प्रतिपत्तिः, अपि त्वविकल्पिकैवेति । अथाद्यमध्यक्ष वाचकस्मृत्यभावादविकल्पकमेवास्तु, न स्मृतिसहकृतेन्द्रियजम् , उत्तरं तु तत् सविकल्पकमित्यत्र को दोषः ? इति चेत् । न, स्मृत्युपनीतेऽपि शब्दे परिमल इवाविषयत्वाद् नयनस्याप्रवृत्तेः । न चैवं नामविशिष्टस्याग्रहणेऽपि | द्रव्यादिविशिष्टनाहि प्रत्यक्षं सविकल्पकमस्तु, वाधकाभावादिति वाच्यम् । विशेषण-विशेष्यभावस्य वास्तवत्वे दण्ड पुरुषयोरिव प्रतिनियतस्यैव संभवात् 'कदाचिद् दण्डस्यैव विशेषणत्वम् , कदाचिच्च पुरुषस्यैव' इति विशेषानुपपत्तेः, अर्थक्रियाजनकत्वतत्प्रयोजकत्वापेक्षया प्रधानो-पसर्जनभावरूपस्य तस्य कल्पनाऽविषयत्वात् । तस्मादध्यक्षसंविद् निरस्तविशेषणमर्थमवगच्छति, विशेषणयोजना तु 'स्मरणादुपजायमानाऽपास्ताक्षार्थसंनिधिर्मानसी' इति प्रतिपत्तव्यम् , बहिरावभासिकाभ्यो विशदसंविध्यः स्वग्रहणमात्रपर्यवसितानां सुखादिसंविदामिवार्थसाक्षात्करणास्वभावायास्तस्या भिन्नत्वेन बाधकाभावात् । न च जात्यादिविशिष्टार्थप्रतिपत्तेः सविकल्पिका मतिः, जात्यादेः स्वरूपानवभासनात् । न हि व्यक्तिद्वयाद् व्यतिरिक्तवपुर्गाह्याकारतां बहिबिभ्राणा विशददर्शने जातिराभाति । न चाम्र-चकुलादिषु 'तरुस्तरुः' इत्युल्लिखन्ती बुद्धिराभातीति नासती जातिरिति वाच्यम् , विकल्पोल्लिख्यमानतयापि बहिर्लाह्याकारतया जातेरनुद्भासनात् प्रतीतिरेव तत्र तुल्याकारतां बिभर्तीति । न च KO शब्दः प्रतीतिर्वा जातिमन्तरेण तुल्याकारतां नानुभवति, 'जातिर्जातिः' इत्यपरजातिव्यतिरेकेणापि गोत्वादिसामान्येषु BeloperiodioespRROR Jain Education in a For Private Personel Use Only Ediww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy