________________
सर्श च सामान्यग्रहेऽपि विशेषाग्रहात् । किञ्च, वैखरी वाचं न नायनं ज्ञानमुपस्पृशति, तस्याः श्रोत्रमात्रग्राह्यत्वाभ्युपगमात्; FO नापि स्मृतिविषयां मध्यमाम् , तामन्तरेणापि शुद्धसंविदो भावात् । संहृताशेषवर्णादिविभागा पश्यन्ती च वागेव न भवति, बोधरूपत्वात् , वाचश्च वर्णरूपत्वात् , अतो न तयुक्ता प्रतिपत्तिः, अपि त्वविकल्पिकैवेति ।
अथाद्यमध्यक्ष वाचकस्मृत्यभावादविकल्पकमेवास्तु, न स्मृतिसहकृतेन्द्रियजम् , उत्तरं तु तत् सविकल्पकमित्यत्र को दोषः ? इति चेत् । न, स्मृत्युपनीतेऽपि शब्दे परिमल इवाविषयत्वाद् नयनस्याप्रवृत्तेः । न चैवं नामविशिष्टस्याग्रहणेऽपि | द्रव्यादिविशिष्टनाहि प्रत्यक्षं सविकल्पकमस्तु, वाधकाभावादिति वाच्यम् । विशेषण-विशेष्यभावस्य वास्तवत्वे दण्ड पुरुषयोरिव प्रतिनियतस्यैव संभवात् 'कदाचिद् दण्डस्यैव विशेषणत्वम् , कदाचिच्च पुरुषस्यैव' इति विशेषानुपपत्तेः, अर्थक्रियाजनकत्वतत्प्रयोजकत्वापेक्षया प्रधानो-पसर्जनभावरूपस्य तस्य कल्पनाऽविषयत्वात् । तस्मादध्यक्षसंविद् निरस्तविशेषणमर्थमवगच्छति, विशेषणयोजना तु 'स्मरणादुपजायमानाऽपास्ताक्षार्थसंनिधिर्मानसी' इति प्रतिपत्तव्यम् , बहिरावभासिकाभ्यो विशदसंविध्यः स्वग्रहणमात्रपर्यवसितानां सुखादिसंविदामिवार्थसाक्षात्करणास्वभावायास्तस्या भिन्नत्वेन बाधकाभावात् । न च जात्यादिविशिष्टार्थप्रतिपत्तेः सविकल्पिका मतिः, जात्यादेः स्वरूपानवभासनात् । न हि व्यक्तिद्वयाद् व्यतिरिक्तवपुर्गाह्याकारतां बहिबिभ्राणा विशददर्शने जातिराभाति । न चाम्र-चकुलादिषु 'तरुस्तरुः' इत्युल्लिखन्ती बुद्धिराभातीति नासती जातिरिति
वाच्यम् , विकल्पोल्लिख्यमानतयापि बहिर्लाह्याकारतया जातेरनुद्भासनात् प्रतीतिरेव तत्र तुल्याकारतां बिभर्तीति । न च KO शब्दः प्रतीतिर्वा जातिमन्तरेण तुल्याकारतां नानुभवति, 'जातिर्जातिः' इत्यपरजातिव्यतिरेकेणापि गोत्वादिसामान्येषु
BeloperiodioespRROR
Jain Education in
a
For Private Personel Use Only
Ediww.jainelibrary.org