________________
स
शास्त्रवार्ता- समुच्चयः। ॥१५५॥
दीका। स्तबकः।
SePRESS
स्याध्यक्षाहेतुत्वात् , अन्यथा योगिज्ञानस्यावर्तमानार्थग्राहित्वानुपपत्तेः । अथैवमेकत्र प्रमातरि एक एवोपयोगः स्यात् , तदा- कारभेदादखिलव्यवहारोपपत्तेरिति चेत् । सत्यम् , घटादेर्मुदादिरूपतयेवात्मद्रव्यतर्यक्येऽप्यविच्युतरूपभेदस्यानुभवसिद्धत्वे. नाविरोधादिति दिग् ।। ११२ ॥
न चायं भ्रान्त इत्याहस्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि। कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः११३
न चाय-बोधान्वयः, भ्रान्तः- भ्रान्तिविषयः, इत्यपि कल्पना (युक्त्या) युज्यते । कुतः ? इत्याह- स्वसंवेदनसिद्धत्वात्स्वसंविदितज्ञानपरिच्छिन्नत्वात् , अध्यक्षपमितस्यापि भ्रान्तत्वे, सर्वभ्रान्तिप्रसङ्गत:- घटादीनामप्यसवापत्त्या प्रमाण-प्रमेयादिविभागोच्छेदप्रसङ्गात् ॥ ११३ ॥
नन्वन्वयग्राहिणो विकल्पस्य भ्रान्तत्वेऽपि स्वलक्षणनिर्विकल्पस्याध्यक्षत्वेनाभ्रान्तत्वाद् नोक्तदोषः । न च नामायुल्लेखपरिष्वक्तमूर्तिविकल्पोऽप्यध्यक्षः, असंनिहितनामादियोजनाकरम्बितत्वात् , प्रत्यक्षस्य च संनिहितमात्रविषयत्वात् । एतेन
"वायूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥१॥"
इति वाक्संस्पृष्टस्यैव सकलार्थस्य संवेदनम् , इति शाब्दिकमतं निरस्तम् , अर्थदर्शने तदाक्स्मृतेस्तत्संस्पर्शः, तत्संस्पर्श च तत्संस्पृष्टार्थग्रहणमित्यन्योन्याश्रयात् , अगृहीतसंकेतस्य च वालस्य वागसंस्पर्शनार्थाग्रहणप्रसङ्गात् , 'किम् ?' इति वाक्सं-
॥१५५।।
Jain Education
a
l
For Private Personal use only
www.jainelibrary.org