SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स शास्त्रवार्ता- समुच्चयः। ॥१५५॥ दीका। स्तबकः। SePRESS स्याध्यक्षाहेतुत्वात् , अन्यथा योगिज्ञानस्यावर्तमानार्थग्राहित्वानुपपत्तेः । अथैवमेकत्र प्रमातरि एक एवोपयोगः स्यात् , तदा- कारभेदादखिलव्यवहारोपपत्तेरिति चेत् । सत्यम् , घटादेर्मुदादिरूपतयेवात्मद्रव्यतर्यक्येऽप्यविच्युतरूपभेदस्यानुभवसिद्धत्वे. नाविरोधादिति दिग् ।। ११२ ॥ न चायं भ्रान्त इत्याहस्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि। कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः११३ न चाय-बोधान्वयः, भ्रान्तः- भ्रान्तिविषयः, इत्यपि कल्पना (युक्त्या) युज्यते । कुतः ? इत्याह- स्वसंवेदनसिद्धत्वात्स्वसंविदितज्ञानपरिच्छिन्नत्वात् , अध्यक्षपमितस्यापि भ्रान्तत्वे, सर्वभ्रान्तिप्रसङ्गत:- घटादीनामप्यसवापत्त्या प्रमाण-प्रमेयादिविभागोच्छेदप्रसङ्गात् ॥ ११३ ॥ नन्वन्वयग्राहिणो विकल्पस्य भ्रान्तत्वेऽपि स्वलक्षणनिर्विकल्पस्याध्यक्षत्वेनाभ्रान्तत्वाद् नोक्तदोषः । न च नामायुल्लेखपरिष्वक्तमूर्तिविकल्पोऽप्यध्यक्षः, असंनिहितनामादियोजनाकरम्बितत्वात् , प्रत्यक्षस्य च संनिहितमात्रविषयत्वात् । एतेन "वायूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥१॥" इति वाक्संस्पृष्टस्यैव सकलार्थस्य संवेदनम् , इति शाब्दिकमतं निरस्तम् , अर्थदर्शने तदाक्स्मृतेस्तत्संस्पर्शः, तत्संस्पर्श च तत्संस्पृष्टार्थग्रहणमित्यन्योन्याश्रयात् , अगृहीतसंकेतस्य च वालस्य वागसंस्पर्शनार्थाग्रहणप्रसङ्गात् , 'किम् ?' इति वाक्सं- ॥१५५।। Jain Education a l For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy