________________
तन्निमित्तम्, नीलपीताकारयोर्मिन संततिगतत्वेन विरोधेऽप्यधि- धूमायाकाराणामेक संततिगतत्वेनाऽविरोधात् एकत्र स्वसंविदि ग्राह्य ग्राहकाकारवत्। न च समानकालीनाकारभेदेनाकारवतोऽभेदेऽपि क्रमिकाकारभेदात् तद्भेदः, तद्वदेव तस्याविरुद्धत्वेनाभेदकत्वात् 'मुहूर्तपात्रमहमेविकल्पपरिणत एवासम्' इत्यवाधितानुभवात् । न च नैयायिकेनाप्येतदनुभवापह्नवः कर्तुं शक्यः, प्रदीर्घाध्यवसायस्य धारावाहिकतया समर्थने स्थूलकालमादाय 'पश्यामि' इति प्रत्ययस्य भ्रान्तले, तदैक्यप्रत्यभिज्ञायाथ तज्जातीय भेदविषयकत्वे, घटादौ वर्तमानताप्रत्यय- प्रत्यभिज्ञयोरपि तथात्वे बौद्धसिद्धान्तमवेशात् । न चैवं गोदर्शनकाल Searवविकल्पानुभवात् तयोरप्येकदाभ्युपगमः स्यात्, अनुभवस्य प्रत्याख्यातुमशक्यत्वात् एवं च तवापि 'जुंगवं दो णत्थि उवओगा' इति वचनव्याघात इति वाच्यम्; 'उक्तवचनस्य समानसविकल्पद्वययौगपद्यनिषेधपरत्वात् इन्द्रिय-मनोज्ञानयोरेकदाप्युपपत्तेः' इति सम्मतिटीकाकारः । भिन्नेन्द्रियज्ञानयौगपद्यं तु वाधकात् त्यज्यते । प्रकृते च नैकोपयोगानुभवे किञ्चिद् बाधकं पश्यामः । न चोत्तरक्षणवर्तिविभुविशेषगुणानां स्वपूर्ववृत्ति योग्यविभुविशेषगुणनाशकतया प्रदीर्घाध्यवसायस्य बाधः, सुषुप्तिप्राकालीनज्ञानादेरिव सर्वस्यैवोत्तरक्षणवृत्तित्वविशिष्टस्य स्वनाशकत्वेन क्षणिकत्वप्रसङ्गात् स्वत्वस्य नानात्वेन विशिष्यैव नाशकत्वकल्पनाच्चेति । अन्यत्र विस्तरः ।
स्वतन्त्राग्नि-धूमाद्युपयोगभेदवदत्रापि तद्भेद इति कुचोद्यमाशङ्कनीयम् एकसामग्रीप्रभवैकविचाराङ्गीभूताकारrestrial नभेद इत्युक्तत्वात् । न चान्यादिविषयकारणभेदात् सामग्रीभेदः, योग्यतातो विषयप्रतिनियमोपपत्तौ विषय१ तस्य । २ युगपद् द्वौ न स्त उपयोगी ।
Jain Education Interratonal
For Private & Personal Use Only
www.jainelibrary.org