________________
तुल
एतदेव स्पष्टयन्नाहन पूर्वमुत्तरं चेह तदन्याग्रहणाद् ध्रुवम् । गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् ॥१०॥
ह- परदर्शने, पूर्व- कारणताश्रयः, उत्तरं च- तत्पतियोगेि, न गृह्यते, ध्रुवं- निश्चितम् , तदन्याग्रहणात्- अधिकृत| दर्शनवेलायामन्यादर्शनात् । ततः 'अत इदम्-' 'अग्न्यादेधूमादि' इत्यन्वयज्ञानम् , 'नातः- जलादेः, इदम्- अग्न्यादि' इति | व्यतिरेकज्ञानम् , 'ननु' अक्षमायाम् , अतीन्द्रियदर्शनम्- इन्द्रियातीतमपूर्व प्रत्यक्षम् । न चान्त्रय व्यतिरेकाग्रहादेव कारणता
ग्रहः, कार्यानुकृतान्वय-व्यतिरेकातियोगित्वरूपकारणतायां तयोर्घटकत्वात् , घट्यग्रहस्य च घटकग्रहाधीनत्वात् , अनन्यथासिद्ध| नियतपूर्ववर्तित्वरूपतद्ग्रहेऽपि सहचारग्रहत्वेन, अन्वय-व्यतिरेकाभ्यां वा तद्ग्रहहेतुत्वावश्यकत्वात् । न च शक्तिरूपकारणतापि धर्मिग्रहमात्रात् सुग्रहा, तस्या अनुमेयत्वादिति दिग् ॥ १०८ ।।
एवं च विकल्पोऽपि न घटत इत्याहविकल्पोऽपि तथान्यायाधुज्यते न ह्यनीदृशः तत्संस्कारप्रसूतत्वात्क्षणिकत्वाच्च सर्वथा१०९
विकल्पोऽपि-निश्चयोऽपि, तथान्यायात्-उक्तन्यायात , तत्संस्कारममूतत्वात्- पूर्वोत्तरसंवित्संस्कारजत्वात् , र क्षणिकत्वाच- अन्वय(?) विच्छेदेन क्षणिकत्वाभ्युपगमाञ्च, अनीदृशः- असंस्पृष्टविप्रतिषेधः, न हि-नैव, युज्यते । न हिं पूर्वानुभूतसंस्कार विना सारणात्मा निश्चयः । न च क्षणभङ्गे प्राच्यसंस्कारावस्थानमिति ॥ १०९ ॥
Jain Education inte
!
For Private & Personel Use Only
Halw.jainelibrary.org