________________
शास्त्रवार्तासमुच्चयः।
सटीकः। स्तबकः। ॥४॥
॥१५३॥
एतेन-परमते तत्स्वभावत्वापरिज्ञानप्रतिपादनेन, 'अग्निज्ञानजं धमज्ञानं, तथाषिकल्पकृत्- 'अग्निजन्योऽयं धूमः' इति विकल्पहेतु;, नान्यत्' इति प्रत्युक्तं- निरस्तम् , इष्यताम्- अङ्गीक्रियताम् ।। १०५॥
प्रस्तुतं निगमयतिअतः कथंचिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम्।।१०६॥
अत:- उक्तयुक्तः, कथश्चित- अन्वयाविच्छेदात , एकेन-ग्राहकेण, तयोः- हेतु-फलयोः, अग्रहणे सति, तथाप्रतीतितः- तदितरावधिकत्वेनाऽमतीतेः, तथाभावकल्पनं- प्रक्रमाद् हेतु-फलयोस्त जननस्वभावत्वादिकल्पनं, न न्याय्यंन युक्तम् ॥ १०६॥
एवं चाभ्युपगमक्षतिरित्याहप्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् ?। कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥
'हन्त' इति खेदे, एवं-तत्तथाभावानवगतो, प्रत्यक्षा-ऽनुपलम्माभ्यां कार्यकारणता कथं साध्यते । कुतः? इत्याहतस्मात् तद्भाबादेः- तदन्वयानुकृतान्वयप्रतियोगित्वादेः, अनिश्चयात्- अनुपलम्भात् , आदिना तव्यतिरेकानुकृतव्यतिरेकप्रतियोगित्वग्रहः ।। १०७॥
१ उपलब्ध्य-ऽनुपलब्धियां, अन्वय-व्यतिरेकाभ्यामिति यावत् । .
॥१५३॥
Jain Education Internationa
For Private & Personel Use Only
Last www.jainelibrary.org