________________
'हन्त' इत्यनेन मूच्यते । यदि तत्तथाभावतः-तस्यैवाग्निज्ञानस्यैव तथाभावतो धमज्ञानभावेन परिणामो नाभूदिति नाग्न्यादि
गतिरित्यभिमतम् , तदा भवत्विहेदं समाधानम् । परमितरत्र- अविनाभावग्रहस्थले, इत्थम्- उक्तप्रकारेण, एकमेव ज्ञानं . एकाकारपरित्यागान्याकारोपादानेन, तग्राहि- धूमानलग्राहि, भाव्यता- विपृश्यतामेतत् , अन्यथा विशेषासिद्धेः ॥१०३॥
पक्षान्तरनिरासेनाधिकृतमेव समर्थयन्नाहतदभावेऽन्यथा भावस्तस्य सोऽस्यापि विद्यते।अनन्तरचिरातीतं तत्पुनर्वस्तुतःसमम् १०४
अन्यथा- तत्तथाभावेन विशेषानभ्युपगमे, तदभावे- अग्निज्ञानाभावे, तस्य- धूमज्ञानस्य, भावः- उत्पादः, अभ्युपगतो भवति, गत्यन्तराभावात् । न चैवं विशेष इत्याह- सः- तदभावे भावः, तस्यापि-नालिकरद्वीपवासिधुमज्ञानस्य, विद्यते। तत्काले यथोक्तानिज्ञानाभावादानन्तर्याद् विशेषः स्यादित्यत आह- अनन्तरचिरातीतं, तत्पुनरग्निज्ञानम् , वस्तुनः- परमार्थतः, तदानीमसत्वात् समम् , अनुपयोगाविशेषात् , हेतुसत्त्वस्यैव कार्ये उपयोगात । वस्तुतो नाग्निज्ञानजधृमज्ञानत्वेनाग्निगमकत्वम् , अनग्निज्ञानादपि धूमं ज्ञात्वा मानसाध्यक्षेण, ऊहाख्यप्रमाणेन वा व्याप्तिग्रहेनिज्ञानोदयात् , अग्निज्ञानकुर्वदूपत्वं चन धूमज्ञानहेतुतायां पक्षपाति, पिशाचस्यापि तथाहेतुत्वसंभवादिति न किश्चिदेतत् ॥ १०४ ॥
एतेनैतद् निरस्तमित्याहअग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् १०५
JainEducation Inter
For Private
Personal Use Only