SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ।॥४ ॥ शाखयातायः केवलानलग्राहिज्ञानकारणकारणः। सोऽप्येवं न चतदेतोस्तज्ज्ञानादपि तद्गतिः॥१०१॥ सटीकः । समुच्चयः | यः- कचिद् नालिकेरद्वीपवासिप्रत्ययः, केवलानलग्राहिज्ञानकारणकारणः- दैवादयोगोलकाङ्गारादिज्ञानसमुत्थः, स्तवकः। ॥१५२॥ सोऽपि, एवं- गृह्यमाणधुमहेत्वग्निगोचरसमनन्तराविकलः । न च तद्धेतोरप्येवं- निमित्तसमनन्तरहेतोरपि, तज्ज्ञानात्नालिकेरद्वीपवासिधूपज्ञानात् , तद्गतिः- अनलादिगतिः, तथा च व्यभिचार एवेति भावः ॥ १०१॥ परः समाधानान्तरमाहतज्ज्ञानं यन्न वैधूमज्ञानस्य समनन्तरः। तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः॥१०२॥ तज्ज्ञानम्- अग्निज्ञानम् , यद्- यस्मात , वै-निश्चितम्, धृमज्ञानस्य समनन्तर:- उपादानहेतुः, न तथाऽभूत , इत्यतो हेतोः, इह-नालिकेरद्वीपवासिनि, तज्ज्ञानादपि-दैवादीनविषयकज्ञानोत्थधृमज्ञानादपि, न तद्गतिः-नानलादिगतिः, तथा चानिज्ञानोपादेयधूमज्ञानत्वेनाग्निगमकत्वाद् न दोष इति भावः ।। १०२॥ अत्रोत्तरम्तथेतिहन्त! कोन्वर्थस्तत्तथाभावतो यदि। इतरत्रैकमेवेत्थंज्ञानंतग्राहि भाव्यताम्॥१०॥ 'न तथाऽभूत्' इत्यत्र 'तथा' इति हन्त ! को न्वर्थः ? । वाक्यार्थमविचार्यैव वाक्यं प्रयुञ्जानस्य महदनौचित्यमिति ॥१५२ ॥ Join Education For Private Personal use only Bodww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy