________________
अत्रैवाक्षेपं समाधानं चाहसमनन्तरवैकल्यं तत्रेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे हन्त ! क्वचिददर्शनात् ॥१९॥
तत्र नालिकेरद्वीपवासिधृपादिज्ञानादग्न्याद्यगतिस्थले, समनन्तरवैकल्यं स्यात्, एतदप्यनुपपत्तिक- नियुक्तिकम् । कुतः' इत्याह-तुल्ययोरपि-समनन्तरयोः, उत्तरं तद्भावे-धूमादिग्रहोत्पादे, हन्तकचित-अगृहीताविनाभावे पुसि, तददशनात्अनलाद्यननुभवात् ।। ९९ ॥
ननु न समनन्तरत्वमात्रेण समनन्तरतौल्यमपेक्षितम् , किन्तु गृहथमाणकारणताश्रय कारणविषयत्वेन, इत्यभिप्रेत्य परः शङ्कतेनतयोस्तुल्यतैकस्य यस्मात्कारणकारणम्। ओघात्तहेतुविषयं न त्वेवमितरस्य तु॥१००08
न तयोः- गृहीताविनाभावनालिकेरद्वीपवासिसमनन्तरयोः, तुल्यता, यस्मादेकस्य गृहीताविनाभावस्य, कारणकारणंधूमज्ञानोपादानम् , ओघात्- सामान्यतः, तथाविकल्पानुपरागेणेति यावत् , तद्धेतुविषयं- गृह्यमाणधूमहेत्वग्निविषयम् , न तु, 50 एवम्- उक्तवत् , इतरस्य तु-नालिकेरीपवासिनस्तु, तेन सदा तदग्रहणात् ॥ १०॥
अत्रोत्तरम्१ ख.ग.प.च. 'नज्ञाने आं'।
For Private
Personal Use Only